________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६
अभिधान संग्रहः – ८ अनेकार्थसंग्रहः ।
१७४१
१७४५
१७४६
१७४९
१७५०
कलानुनादी चटके चरीके कपिञ्जले । गन्धमादनः कप्यद्रिभिदोरेलिनि गन्धके ॥ गन्धमादनी सुरायामथ जायानुजीविनः । वैकाश्विननटदुःस्थाः स्याद्धूमकेतनोऽनले ॥ १७४२ ग्रहभेदे च प्रतिपादनं बोधनदानयोः । पद्मलाञ्छनो धनदे लोकेशे रविवेधसोः ॥ १७४३ पद्मलाञ्छना तारायां सरस्वत्यां श्रियामपि । पीतचन्दनं स्याद्धरिद्रायां कश्मीरजन्मनि ॥ १७४४ महारजनं कुसुम्भे स्वर्णेऽथ मधुसूदनः । भ्रमरे केशवे मृत्युवञ्चनः श्रीफले हरे || द्रोणकाकेऽप्यथ वरचन्दनं देवदारुणि । कालेये वरवर्णिन्यङ्गनालाक्षाप्रियङ्गुषु ॥ रोचनायां हरिद्रायामथ स्याच्छकुलादनी । कैटामांसीपिचुलिकाजलपिप्पलिकासु च || १७४७ शालङ्कायनो नन्हृष्योः स्याच्छ्रेतवाहनः शशी । पार्थेऽथ सहस्रवेधी चुक्रे सहस्रवेधि तु ।। १७४८ हिङ्गौ चामरपुष्पस्तु केतके चूतकाशयोः । गोरक्षजम्बूर्गोधूमधान्ये गोरक्षतण्डुले || धूलीकदम्बस्तिनिशे नीपे वरुणपादपे । शृगालजम्बूर्गोडुम्बे फले च वदरीतरोः ॥ अभ्युपगमः समीपागमने स्वीकृतावपि । नक्षत्रनेमिः शीतांशुरेवत्यौत्तानपादिषु ॥ कालानुसार्य शैलेये कालेये शिशिपातरौ । अथ स्याद्दुग्धतालीयं दुग्धाप्रदुग्धफेनयोः || वृषाकपायी जीवन्त्यां शतावर्युमयोः श्रियाम् । उत्पलपत्रमुत्पलदले स्त्रीणां नखक्षते || कपिलधारा त्रिदशापायां तीर्थभिद्यपि । तमालपत्रं तिलके तांपिच्छे पत्रकेऽपिच ॥ तालीसपत्रं तु तामलक्यां तालीसके कचित् । पादचत्वरः करके परदोषैकभाषिणि ॥। सैकते छगलेऽश्वत्थमेऽपसुचामरः । वद्धपके प्रशंसायां दुर्वाचित भुवि ॥ पुरोटौ धूलिगुच्छे पीतकावेरं तु कुङ्कुमे । पित्तले वस्वोकसारा विन्द्रस्य धनदस्य च ॥ १७५७ 'नॅलिनी पुर्योर्विप्रतिसारस्त्वनुशये रुषि । कौये सर्वतोभद्रस्त्वोकोभित्काव्यचित्रयोः || १७५८ निम्वेऽथ सर्वतोभद्रा गम्भार्या नटयोषिति । समभिहारस्वाभीक्ष्णे भृशार्थेऽथा सुतीबलः || १७५९ शौण्डिके यज्वन्युदण्डपालो मत्स्याहिभेदयोः । स्यादेककुण्डलो बलभद्रे किंपुरुषेश्वरे ।। १७६० कृपीटपास्तु केनिपाते जलनिधावपि । स्यात्पाण्डुकम्बलः श्वेतकम्बलयावभेदयोः || १७६१
१७५१
१७५२
१७५३
१७५६
For Private and Personal Use Only
१७५४
१७५५
१. 'कलं मनोज्ञमनुवदति कलानुनादी' इति टीका. 'कालानुनादी' ख. २. 'अलौ च' ग घ ३. 'नटाश्विनवकदुःस्थाः' ख. ४. ' इत्येतच्छातकुम्भकुसुम्भयोः । मधुसूदनसंज्ञा तु भ्रमरे वनमालिनि । स्यान्मृत्युवञ्चनः शंभौ श्रीफलद्रोणकाकयोः । वरचन्दनमाख्यातं कालेये देवदारुणि । स्याद्वरवर्णिनी लाक्षाहरिद्रारोचनासु च । स्त्रीरले च प्रियङ्गौ च स्यादथो शकुलादनी ।' एवं पाठ: ख- पुस्तके. ५. 'कट्टीमांसीपिलिका' खः 'कटुमांसी किञ्चुलिका' ग घ ६. 'शालङ्कायनशब्दः स्याद्दचिभेदेऽपि नन्दिनि । शिवकीर्तनशब्दस्तु भृङ्गिरीटे मुरद्विष । श्वेतवाहन इत्याख्या शशाङ्के च धनंजये । स्यात्षष्टिहायनो धान्यविशेषे च मतङ्गजे । सहस्रवेधी चुक्रे स्यात्सहस्रवेध रामठे | हरिचन्दनमाम्नात गोशीर्षे देवपादपे । हरिवाहन इत्युक्तो भास्करामरनाथयोः । भवेच्चामरपुष्पस्तु के' इत्यधिकः ख-पुस्तके पाठः ७. 'धूलीकदम्बोऽस्तिनिशे' ग घ ८. 'गोडुम्ब औषधम्' इति टीका. 'गोडिम्बे' गव. ९. 'कालानुसार्यः' गय १० 'दुग्धाम्रे दुग्ध' ख. ११ इतः प्राक् 'भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि' इत्यधिकः पाठः ख- पुस्तके १२. 'तापिच्छस्तमाल:' इति टीका. 'तापिञ्छ' ग घ . १३. 'पांशु' गन्ध. १४. 'वस्वौकसारा' गन्ध. १५. 'पुरीनलिन्योर्वि' ख. १६. 'गम्भारी श्रीपर्णी वृक्ष:' इति टीका. 'गम्भीर्याम्' ख. १७. 'भृशार्थ पौनःपुन्येऽपि कथ्यते । आसुतीवलशब्दस्तु यज्ञकर्तरि शौण्डिके । भवेदुद्दण्डपालस्तु मत्स्य सर्पप्रभेदयोः । एककुण्डल इत्येष बलभद्रे धनाधिपे । कृपीटपालशब्दस्तु केनिपाते पयोनिधौ । कूटपालो गजपित्तज्वरे पाकमारुते ||' इत्यधिकः पाठः ख-पुस्तके.