________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्ययाधिकारः ।
६७
१७६२.
सुरतताली शिरःस्रग्दृत्योरथाशितंभवः । अन्नादौ तृप्तौ च नभश्चमसश्चन्द्रमाययोः ॥ चित्रापूपे हिङ्गुनिर्यासो हिङ्गुरसनिम्बयोः । हिरण्यरेता ज्वलने सहस्रकिरणेऽपि च || १७६३ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे पञ्चस्वरकाण्डः पञ्चमः ॥ ५ ॥
षट्खरकाण्ड: ।
1
ग्राममरिका युद्धशृङ्गयोर्मातुलपुत्रकः । धत्तूरकस्य च फले मातुलस्य च नन्दने || १७६४ लूतामर्कटकः पुत्रीनवमालिकयोः कपौ । वर्णबिडोलकः काव्यच्छायाहृत्संधि चोरयोः || १७६५ सिन्दूरतिको हस्ती सिन्दूरतिलकाङ्गना । दोहदलक्षणं गर्भे स्यात्संधौ यौवनस्य च ॥१७६६ यौवनलक्षणं वक्षोरुहे च लवणिनि च । अर्द्धपारापतचित्रकण्ठे स्यात्तित्तिरावपि ॥ 1 प्रत्युद्गमनीयमुपस्थेये धौतांशुकद्वये । विष्वक्सेनप्रिया त्रायमाणौषध्यां श्रियामपि ॥ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे षट्स्वरकाण्डः षष्ठः ॥ ६ ॥
१७६७
१७६८
अव्ययाधिकारः ।
अथाव्ययानि वक्ष्यन्ते प्राग्वदेव स्वरक्रमात् । अ स्वल्पार्थेऽप्यभावेऽपि स्यादा स्मरणवाक्ययोः ।। १७६९ आङीषदर्थेऽभिव्याप्तौ क्रियायोगेऽवधावपि । औ स्यादवधृतिस्मृत्योराः संतापप्रकोपयोः ।। १७७० इ स्यात्खेदे प्रकोपोक्तवी क्रोधे दुःखभावने । प्रत्यक्षे संनिधौ चाप्यु रोषोक्त्यामन्त्रणार्थयोः || १७७१ उत्प्राधान्ये प्रकाशे च प्राबल्यास्वास्थ्यशक्तिषु । विभागे बन्धने मोक्षभावे लाभोर्ध्वकर्मणोः ॥ १७७२ उं प्रश्नेऽङ्गीकृतौ रोषेऽप्यूं प्रश्ने रोषवाचि च । ऋ कुत्सावाक्ययोरेऐ हेहैशब्दाविव स्मृतौ ॥ १७७३ आमन्त्रणाह्वानयोरों प्रणवेऽङ्गीकृतावपि । ओ औशब्दौ तु होहौ च हृतौ संबोधनेऽपि च ।। १७७४ कु पापीयसि कुत्सायामीषदर्थे निवारणे । कं सुखे वारिशिरसोः किं प्रश्ने कुत्सितेऽपि च ॥१७७५ चान्योन्यार्थसमाहारान्वाचयेषु समुच्चये । हेतौ पक्षान्तरे तुल्ययोगिताविनियोगयोः ॥ १७७६
१. 'मन्त्रचूर्णलमिच्छन्ति वशीकरणवेदिनि । डाकिनीदोषमन्त्रज्ञे कुशाम्बुप्रोक्षणेऽपि च । भवेत्सुरतताली तु दूतिकायां शिरःस्रजि । आशितंभवमन्नादावाशितंभवस्तर्पणे । स्यादाषाढभवो भीमे नवीनजलदेऽपि च । स्यान्नभश्चमसश्चन्द्रेचितायूपेन्द्रजालयोः । हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च।' इति ख-पुस्तकेऽधिकः पाठः. २• ‘शृङ्गयां ग्रामयुद्धेऽपि कीर्त्यते । स्यान्मदनशलाका तु सार्यो कामोदयौषधौ । मातुलपुत्रको धत्तूरफले मातुलात्मजे' इति ख- पुस्तकेऽधिकः पाठः ३. 'स्नानचिकित्सक चातुर्मास्यव्रतकरे नरे । स्नानचिकित्सकं प्रोक्तं नारीपुष्पतपस्ययोः ॥' इत्यधिक: ख- पुस्तके. ४. 'यौवनलक्षणा' ख. ५. इतः परम् 'समुद्रनवनीतं स्यात्पीयूषे च सुधाकरे’ ख. ६. ‘अर्धेन पारापतोऽर्द्धपारापतः, द्वावपि पक्षिभेदौ' इत्यनेकार्थकैरवाकरकौमुदी. ७. 'विष्वक्सेप्रिया लक्ष्म्यां त्रायमाणौषधावपि' ख; 'विश्वक्सेन' ग घ. ८. 'अ स्यादभावे स्वल्पार्थे विष्णावेष त्वनव्ययम्' ख. ९. ‘अभिव्यक्तौ क्रियाभेदे' ग-व. १०. 'आ स्याद्वाक्ये च स्मरणे स्यादा वेधस्यनव्ययम्' ख. ११. 'कामदेवे त्वनव्ययम् । इदुःखभावने क्रोधे ईर्लक्ष्म्यां स्यादनव्ययम् । उ संबुद्धौ रुषोत्तौ च शिववाची त्वनव्ययम् । उत्प्राधान्ये प्रकाशे च ' ख-पुस्तकस्थपाठोऽयम्. १२. 'मोक्ष' ख. १३. 'ऊ रक्षणे रक्षकेच सूच्यां स्यूतावनव्ययम् । ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम् । ऋ वाक्य कुत्सयोर्दै त्यजनन्यामप्यनव्ययम् । लू कुत्सायां विस्मये च शब्दोऽपि तदर्थकः । देवमातरि वाराह्यां क्रमात्तावप्यनव्ययौ । एऐशब्दौ तु है हैवत्स्मृत्यामन्त्रणाहूतिषु । क्रमाच्चतुर्भुजे शंभावेऐ प्रोक्तावनव्ययौ । ओमित्यनुमितौ प्रोक्तं प्रणवे चाप्युपक्रमे । ओओशब्दौ तु होहो वत्संबुद्ध्याह्नानयोर्मतौ । विधातरि क्रमाद्विष्णावो औशब्दावनव्ययौ ।' इत्येवं ख- पुस्तकस्थः पाठः १४० 'मुखे' ख.
For Private and Personal Use Only