________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः |
१७७७
१७७८
१७८०
१७८१
१७८२
१७८४
१७८५
१७८९
पादर्पूरणेऽवधृतौ तु विशेषेऽवधारणे । समुच्चये पादपूर्ती धिग्निर्भर्त्सननिन्दयोः ॥ निस्यात्क्षेपे भृशार्थे च नित्यार्थे दानकर्मणि । संनिधानोपरमयोः संशयाश्रयराशिषु ॥ मोक्षेऽन्तभावेऽघोभावे बन्धने कौशलेऽपि च । नु प्रश्नेऽनुशयेऽतीतार्थे विकल्पवितर्कयोः ॥ १७७९ Parve सादृश्ये तद्विरुद्धतदन्ययोः । व्यतिक्रमे स्वरूपार्थे निषेधाभावयोरपि ॥ निर्निश्चये क्रान्ताद्यर्थे निःशेषप्रतिषेधयोः । प्राक्पूर्वस्मिन्प्रभाते दिग्देशकालेष्वनन्तरे ॥ अतीतेऽग्रेऽप्यथ प्रस्याद्गताद्यर्थप्रकर्षयोः । वा समुच्चय एवार्थे उपमानविकल्पयोः ॥ विष्ठेत नानार्थे वै तौ पादपूरणे । शं कल्याणे सुखेऽर्थं स्वित्परिप्रश्नवितर्कयोः || १७८३ सं संगार्थे प्रकृष्टार्थे शोभनार्थमार्थयोः । स्मातीते पादपूर्ती ह संबुद्धौ पादपूरणे || हा शुंग्दुःखविषादेषु हि ताववधारणे । विशेषे पादपूर्ती च ही विस्मयविषादयोः || दुःखहेतौ च हं रोषभाषणेऽनुनयेऽपि च । हुं वितर्के परिप्रश्ने स्यान्मनागल्पमन्दयोः ॥ १७८६ अङ्ग संबोधने हर्षे पुनरर्थे च किं च तु । साकल्यारम्भयोस्तिर्यक्स्यात्तिरश्चीनवक्रयोः ॥ १७८७ हिरुमध्ये विनार्थेऽति प्रकर्षे लङ्घने भृशे । स्तुतावसंप्रतिक्षेपेऽप्यस्तु पीडानिषेधयोः ॥ १७८८ असूयायामनुज्ञायामाराद्दूरसमीपयोः । इति स्वरूपे सांनिध्ये विवक्षानियमे मते ॥ ent प्रकार प्रत्यक्ष प्रकाशेष्यवधारणे । एवमर्थे समाप्तौ स्यादुत प्रश्नवितर्कयोः || समुच्चये विकल्पे च तावद्यावदिवावधौ । कार्येऽवधारणे माने प्रतीत्थंभूतभागयोः ॥ १७९१ प्रतिदाने प्रतिनिधी वीप्सालक्षणयोरपि । पश्चात्प्रतीच्यां चरमे बतामन्त्रणखेदयोः || धृत्याश्चर्यानुकम्पासु यद्वत्प्रभवितर्कयोः । शश्वत्सह पुनर्नित्ये सकृत्सहैकवारयोः ॥ स्वस्त्याशीः क्षेमपुण्यादौ साक्षात्प्रत्यक्ष तुल्ययोः । हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः १७९४ निश्चये च प्रमोदे चाप्यथो अथ समुच्चये । मङ्गले संशयारम्भाधिकारानन्तरेषु च ॥ अन्वादेशे प्रतिज्ञायां प्रश्नसाकल्ययोरपि । तथा स्यान्निश्चये पृष्ठप्रतिवाक्ये समुच्चये ॥ यथा निदर्शने 'द्वौ तूद्देशे निर्देशसाम्ययोः । हेतूपपत्तौ च वृथा त्वविधौ स्यादनर्थके || १७९७ अनु लक्षणवीप्सेत्थंभूतभागेषु संनिधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ॥ नन्वाक्षेपे परिप्रश्ने प्रत्युक्ताववधारणे । वाक्यारम्भेऽप्यनुनयामन्त्रणानुज्ञयोरपि ॥ नानाविनोभानेकार्थे तु स्थाने तु कारणे । युक्ते साम्येऽप्यप स्तेयेऽपकृष्टे वर्जने मुदि || १८०० विपर्यये वियोगे च निर्देशे विकृतावपि । अपि संभावनाशङ्कागर्हणासु समुचये ॥ प्रश्ने युक्तपदार्थेषु कामचारक्रियासु च । उपासन्नेऽधिके होने सादृश्यप्रतियत्नयोः || तद्योगव्याप्तिपूजासु शक्तावारम्भदानयोः । दाक्षिण्याचार्यकरणदोषाख्यानात्ययेषु च ॥
१७९०
१७९२
१७९३
१७९५
१७९६
१७९८ १७९९
१८०१
१८०२ १८०३
१. 'पूर्णेऽवधूतौ च तु' गन्ध. २. 'संशये यथा, निरेकमेकोऽपि निराकरोति' इति टीका. 'संश्रयाश्रयराशिषु' ख-ग-ध-पुस्तकस्थः पाठः ३. 'अनुनये' ख; 'अनुशाये तीर्थे स्यात्' ग घ ४. 'विशेष' ग घ ५. 'अवान्तरे' ख-ग-घ. ६. 'अपि श्वित्स्वित्स्यात्प्र' गव. ७. 'प्रसंगार्थे' ख. ८ 'समुच्चयो : ' ग घ ९ इतः परम् 'सु पूजायां भृशाथार्नुमतिकृच्छ्रसमृद्धिपु' इति ख- पुस्तकेऽधिकः पाठोऽयम्. १०. 'सुख' ग-व. ११. 'अनुशये' ग-व. १२. 'हूं लज्जायां निवारणे । मनागल्पे च मन्दे चाङ्ग संबोधनहर्षयोः पुनरर्थे चाथ किं च संकल्पारम्भयोतम् । तिर्यक्तिरोर्थे वक्रे च विहगादौ त्वनव्ययम्' । इत्येवं ख- पुस्तके. १३. 'प्रकर्षेष्व' ख. १४. 'वितर्के च यावत्तावदिवावधौ' ग घ पुस्तकयोरेवं पाठः १५. 'प्रमादे' ग घ. १६. 'हेतू' ख. १७. 'मरणोद्यमनार्थयोः' ख.
।
For Private and Personal Use Only