Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 283
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अव्ययाधिकारः । ६९ १८०५ १८१६ अभि वीप्सालक्षणयोरित्थंभूताभिमुख्ययोः । स्यादमा संनिधानार्थे सहार्थेऽलं निवारणे || १८०४ अलंकरणसामर्थ्य पर्याप्तिष्वेवधारणे । एवं प्रकारे ऽङ्गीकारेऽवधारणसमन्वयोः ॥ कथं प्रश्ने प्रकारार्थे संभ्रमे संभवेऽपि च । काममसूयानुगमे प्रकामेऽनुमतावपि || १८०६ किमु संभावनायां विमर्शे जोषं सुखे स्तुतौ । मौनलङ्घनयोश्चापि नाम प्राकाश्यकुत्सयोः ।। १८०७ संभाव्याभ्युपगमयोरली के विस्मये कुधि । नूनं तर्फे निश्चिते च प्राध्वं नर्मानुकूलयोः || १८०८ भृशं प्रकर्षेऽत्यर्थे च सामि त्वर्थे जुगुप्सिते । अयि प्रश्नेऽनुनये स्यादये क्रोधविषादयोः ॥ १८०९ संभ्रमे स्मरणे चान्तरन्ते स्वीकारमध्ययोः । रर्युरुरीवदूरी विस्तारेऽङ्गीकृतावपि ॥ पराभिमुख्ये प्राधान्ये विमोक्षप्रातिलोम्ययोः । गतिधर्षणहिंसासु भृशार्थे विक्रमेऽपि च ॥ परि व्याधा परमे वर्जने लक्षणादिषु । आलिङ्गने च शोके च पूजायां दोषकीर्तने ॥ भूषणे सर्वतोभावे व्याप्तौ निवसनेऽपि चैं । पुरा भविष्यदासन्ने चिरातीतप्रबन्धयोः ॥ पुनरप्रथमे भेदे कि संभाव्यवार्तयोः । हेत्वरुच्योरलीके च खलु वीप्सानिषेधयोः ॥ जिज्ञासायामनुनये वाक्यालंकरणेऽपि च । अवालम्बनविज्ञानवियोगव्याप्तिशुद्धिषु ॥ ear परिभवे ईषदर्थेऽवधारणे । उषा रात्रौ तदन्ते च दोषा निशि निशामुखे || मङ्क्षु शीघ्रे भृशे तत्त्वेऽतो हेतोरपदेशवत् । निर्देशे पश्चम्यर्थे चेतो यतश्च विभागवत् ॥ पञ्चम्यर्थे नियमे च तत आदौ कथान्तरे । पञ्चम्यर्थे परिप्रश्ने तिरोऽन्तर्धी तिरश्चि च ॥ १८१८ नीचैः स्वैराल्पनीचेषु प्रादुर्नामप्रकाश्ययोः । पुरोऽग्रे प्रथमे च स्यान्मिथोऽन्योन्यरहस्यपि ॥ १८१९ Her fan शोके च करुणार्थविषादयोः । अंह क्षेपे नियोगे चाप्यहो प्रश्नविचारयोः ॥ १८२० सह संबन्धसादृश्ययौगपद्यसमृद्धिषु । साकल्ये विद्यमाने च हीही विस्मयहास्ययोः ॥ नैनु च प्रदुष्टोक्तौ सम्यग्वादे स्तुतावपि । अपष्ठु चारौ निर्दोषे किमुत प्रश्नवादयोः ।। १८२२ विकल्पेऽतिशये चापि पुरस्तात्प्रथमेऽग्रतः । पूर्वस्यां च पुरार्थे चाभीक्ष्णं शीघ्रप्रकर्षयोः || १८२३ पौनःपुन्ये संतते चावश्यं निश्चयनित्ययोः । इदानीं सांप्रतं वाक्यालंकारे तद्दिनं पुनः || १८२४ दिनमध्ये प्रतिदिने सांप्रतं तूचितेऽधुना । समयानिकपा चान्तर्निकटे चान्तरा पुनः ।। १८२५ विनार्थे संनिधौ मध्येऽभितोऽभिमुखकार्ययोः । समीपोभयतः शीत्रेष्वग्रतः प्रथमाप्रयोः।। १८२६ अन्ततोऽवयवोत्प्रेक्षा पश्चम्यर्थेषु शासने । पुरतोऽप्राद्ययोः पूर्वेद्युर्धर्माहप्रभातयोः ॥ १८२७ अहहेत्यद्भुते खेदेऽन्तरेणान्तर्विनार्थयोः । अहो बतानुकम्पायां खेदामन्त्रणयोरपि ॥ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहेऽव्ययाधिकारः । १८१७ o १८२१ १८२८ इति श्रीहेमचन्द्राचार्यविरचितोऽनेकार्थसंग्रहः समाप्तः । For Private and Personal Use Only १८१० १८११ १८१२ १८१३ १८१४ १८१५ १. ‘निरर्थकौ' ग-घ. २. ‘च वारणे' ख. ३. 'रोपमयोरङ्गीकारेऽवधारणे' ख. ४. 'उर्दूररी चोररी च ग-घ. ५. 'शुण्ठ्यासु' ग-व. ६. इतः परम् 'प्राङ्गः प्राकाश्ये वृत्तौ स्यात्संभाव्येऽपि प्रयुज्यते' ख. ७. 'प्रतीपयोः ' गघ. ८. 'विक्रान्त' ग घ ९. 'इवौ' ख. १०. इतः परम् 'शनैः शनैश्वरे स्वैरे संहः साहसतेजसोः ' ख. ११. ‘नञ्पूर्वाज्जहातेः क्विपि, अहा' इति टीका. 'अहो' ख ग घ १२. 'नत्रपूर्वाज्जहातेर्डे:, 'अह' इति टीका. 'आह' ख-ग-घ. १२. 'अनु च' ख. १४. 'नानार्थे' ग घ १५. 'समयो' ग घ १६. ' अवसितोत्प्रे' ख.

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313