Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
अभिधान संग्रह: - ८ अनेकार्थसंग्रहः ।
१४८७
१४८९
I
१४९०
१४९१
कलधौतं रूप्यहेनोः कलधौतः कलध्वनौ । कुहरितं तु रटिते पिकालापे रतस्वने || १४७८ कुमुद्वत कैरविण्यां दयितायां कुशस्य च । कृष्णवृन्ता माषपय पाटलाख्यद्रुमेऽपि च ॥ १४७९ गन्धवती मुरापुर्योः पृथ्वीयोजनगन्धयोः । गृहपतिगृही सत्री चन्द्रकान्तं तु कैरवे ॥ १४८० चन्द्रकान्तो रत्नभेदे चर्मण्वती नदीभिदि । कदल्यां चित्रगुप्तस्तु कृतान्ते तस्य लेखके ॥ १४८१ दिवाभीतः काकरिपौ कुम्भिले कुमुदाकरे । दिवाकीर्तिर्नापिते स्यादुलूकेऽन्तावसायिनि ॥ १४८२ धूमकेतू वह्नयुत्पतौ नन्द्यावर्तो गृहान्तरे । तगरेऽथ नदीकान्तो निर्गुण्डीनिचुलाब्धिषु ॥ १४८३ नदीकान्ता लवाजम्ब्वोः काकजङ्घौषधेऽपि च । नागदन्तो हस्तिदन्ते गेहान्निःसृतदारुणि ॥ १४८४ नागदन्ती श्रीहस्तियां कुम्भाख्यभेषजेऽपि च । निस्नुषितं वर्जिते स्याद्धतत्वचि लघूकृते ।। १४८५ निराकृतिरस्वाध्याये निराकारनिषेधयोः । प्रतिहतस्तु विद्विष्टे प्रतिस्खलितरुद्धयोः ॥ १४८६ प्रणिहितं तु संप्राप्तनिहितयोः समाहिते । प्रतिक्षिप्तं प्रतिहते निषिद्धे प्रेषितेऽपि च ॥ प्रधूपिता क्लेशितायां रविगन्तव्यदिश्यपि । प्रव्रजिता तु मूण्डीर्यं तापस्यां मांसिकौषधौ ॥ १४८८ प्रजापतिर्ब्रह्मराज्ञोर्जामातरि दिवाकरे । वहौ लष्टरि दक्षादौ प्रतिकृतिस्तु पूजने ॥ प्रतिमायां प्रतीकारे प्रतिपत्तिस्तु गौरवे । प्राप्तौ प्रवृत्तौ प्रागल्भ्ये बोधे परिगतं गते ॥ प्राप्तचेष्टितयोर्ज्ञाते पल्लवितं सपल्लवे । लाक्षारक्ते तते पञ्चगुप्तचार्वाकदर्शने ॥ कमठे परिवर्तस्तु कूर्मराजे पलायने । युगान्ते विनिमये च परिघातस्तु घातने ।। अस्त्रे चाथ पशुपतिः पिनाकिनि हुताशने । पाशुपतः शिवमल्यां पशुपत्यधिदैवते || पारिजातस्तु मन्दारे पारिभद्रे सुरदुमे । पारापतः कलरवे गिरौ मर्कटतिन्दुके || पारापती तुलवलीफलगोपालगीतयोः । पुष्पदन्तस्तु दिग्नागे जिनभेदे गणान्तरे || पुष्पदन्तौ च चन्द्रार्कावेकोत्तत्याथ पुरस्कृतम् । पूजिते स्वीकृते सिक्तेऽभिशस्तेऽप्रकृतेऽपि च ।। १४९६ भोगवती तु सर्पाणां नगरे च सरित्यपि । रङ्गमाता जतुचुन्द्योलक्ष्मीपतिर्जनार्दने ॥ १४९७ पूगे लवङ्गवृक्षे च व्यतीपात उपद्रवे । योगभेदेऽपयाने च वनस्पतिर्दुमात्रके ॥ १४९८ विना पुष्पं फलेऽद्रौ च विनिपातस्तु दैवतः । व्यसने चावपाने च वैजयन्तो गुहे ध्वजे ।। १४९९ इन्द्रालये वैजयन्ती त्वग्निग्रन्थपताकयोः । जयन्त्यां च समाघातस्त्वाहवे घातनेऽपि च ।। १५०० समाहितः समाधिस्थे संश्रुतेऽथ समुद्धतः । अविनीते समुत्कीर्णे समुद्रान्ता दुरालभा ॥ १५०१ कार्पासिका च सृका च सदागतिः सदीश्वरे । निर्वाणे पवमाने च सरस्वती सरद्भिदि ।। १५०२ वाच्यापगायां स्त्रीरत्ने गोवाग्देवतयोरपि । सूर्यभक्तो बन्धुजीवे भास्करस्य च पूजकै ॥ १५०३ हैमवत्यद्रिजा स्वर्णक्षीरी शुक्लवचाभया । अनीकस्थो रक्षिवर्जे युरेखले वीरमर्दने || चिह्ने गजशिक्षके चेतिकथा व्यर्थभाषणे । अश्रद्धेये नष्टधर्मेऽप्युदरथिर्वियन्मणौ ॥
१४९२
१४९३
१४९४
१४९५
1
१५०४ १५०५
१. 'मुरा औपधि:' इति टीका 'सुरा' ख ग घ २. 'स्वाधिष्ठे' ग घ ३. 'भेषजे' गाव. ४. 'लाभे चेष्टितयोः ' ख ग व. ५. 'अस्त्रान्तरे' ख. ६. 'पारमापतति पारापतः' इति टीका 'पारावतः ' ग घ ७. 'पारवती' ग. ८. 'चुन्दी कुट्टिनी' इति टीका. 'चेट्यो:' ख. 'त्रुट्यो: ग.व. ९. अतः परम् 'शुभ्रदन्ती पुष्पदन्तगजस्त्रियाम् । मुदन्त्यां च ' ख. १०. इतः परम् 'सेनापतिर्गुहेऽध्यक्षे हिमारातिः खगेऽनिले ' इत्यधिकः पाठः ख- पुस्तके. ११. 'युधः खलं रणभूमि:' इति टीका. 'पुंश्चले वीरमर्दले' ख; 'अप्यश्वत्थे वीरमर्दले' ग-घ.
For Private and Personal Use Only

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313