Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः।
२७ जिह्मगो मन्दगे सर्प तुरगो वाजिचित्तयोः । तुरगी त्वश्वगन्धायां धाराङ्गस्तीर्थखङ्गयोः ।। ७२० नैरङ्गं शफे वरण्डे नारङ्गं विटजन्मिनोः । कणारसे नागरङ्गे निषङ्गस्तूणसङ्गयोः ॥ ७२१ निसर्गः सृष्टौ स्वभावे प्लेवगः कपिभेकयोः । अर्कसूते पन्नगस्तु पद्मकाष्ठे भुजङ्गमे ॥ ७२२ परागश्चन्दने रेणौ गिरौ ख्यात्युपरागयोः । नानीयपुष्परजसोः पतङ्गः सूर्यपक्षिणोः॥ ७२३ पारते शलभे शालौ पत्राङ्गं रक्तचन्दने । भूर्जपद्मकयोश्चापि प्रयागो वाजिशक्रयोः ॥ ७२४ यज्ञे तीर्थविशेषे च प्रयोगस्तु निदर्शने । कार्मणे च प्रयुक्तौ च प्रियङ्ग राजसपे ॥ ७२५ पिप्पल्यां फलिनीकङ्ग्वोः पुन्नागः पादपान्तरे | जातीफले नरश्रेष्टे भुजङ्गः सर्पषिड्योः ॥ ७२६ मातङ्गः श्वपचो हस्ती मृदङ्गो घोषवाद्ययोः । रक्ताङ्गो भौमे रक्ताङ्गं कम्पल्लथे विद्रुमेऽपि च ७२७ रक्ताङ्गा जीवन्तिकायां रथाङ्गः कोकपक्षिणि । रथाङ्गं चक्रे वराङ्ग योनौ शीर्षे गुडत्वचि ७२८ कुञ्जरे च विडङ्गस्तु स्यादभिज्ञकृमिन्नयोः । विसर्गो विसर्जनीये वर्चसि त्यागदानयोः ॥ ७२९ संभोगो भोगरतयोः शुण्डायां सर्वगं जले । सर्वगस्तु विभौ रुद्रे सारङ्गो विहगान्तरे॥ ७३० चातके चञ्चरीके च द्विपैणशवलेषु च । अमोघः सफलेऽमोघा पुनः पथ्याविडङ्गयोः ॥ ७३१ अनघः स्याद्गतपापे मनोज्ञे निर्मलेऽपि च । उल्लाघो निपुणे ह्रष्टे शुचिनीरोगयोरपि ॥ ७३२ काचिघस्तु मूषके स्याच्छान्तकुम्भे छमण्डके । परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च ॥७३३ पलिघः काचकलशे घटे प्राकारगोपुरे । प्रतिघौ रुट्प्रतीघातौ महा? लावकाण्डजे ॥ ७३४ महामूल्येऽप्यवीचिस्त्वतरङ्गे नरकान्तरे । कवचस्तु तनुत्राणे पटहे नन्दिपादपे ॥ ७३५ क्रकचः करपत्रे स्याद्गन्धिलाख्यतरावपि । कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ॥ ७३६ नमुचिदितिजे कामे नाराचो लोहसायके । जैलेभे नाराच्येषण्यां प्रपञ्चो विप्रलम्भने ॥ ७३६ विस्तारे संचये चापि मरीचिः कृपणे घृणौ । ऋषिभेदे च मारीचः ककोले योजकद्विपे ॥ ७३७ रक्षोभेदेऽथाण्डजः स्यात्कंक्किण्डेऽहौ खगे झषे । अण्डजा तु मृगनाभावङ्गजो मन्मथे सुते ७२८ मदे केशेऽङ्गजं रक्ते कम्बोजो नीवृदन्तरे । शङ्खहस्तिभेदयोश्च करजो नखवृक्षयोः॥ ७३९ काम्बोजः पुनरश्वानां भेदे पुंनागपादपे । वलक्षखदिरे चापि काम्बोजी माषपर्णिका ॥ ७४० कारुजः कलभे फेने वल्मीके नागकेसरे । गैरिके शिल्पिनां चित्रे स्वयंजाततिलेऽपि च ॥ ७४१ कुटजोऽगस्त्ये दुभेदे द्रोणे गिरिजमभ्रके । शिलाजतुनि लोहे च गिरिजा मातुलुङ्गयुमा । ७४२ जलजं कमले शङ्के नीरजं पद्मकुष्ठयोः । परजोऽसौ तैलयत्रे क्षुरिकाफलफेनयोः ॥ ७४३ बाहुजस्तु स्वयंजाततिले क्षत्रियकीरयोः । भूमिजौ नरकाङ्गारौ भूमिजा जनकात्मजा ॥ ७४४ बलजं गोपुरे सस्ये क्षेत्रसंगरयोरपि । सदाकारे बलजा तु पृथिव्यां वरयोषिति ॥ ७४५ ___१. 'मदने' ग-घ. २. 'नराङ्गः' ग-ध. ३. 'सर्गे' ग-घ. ४. 'नीलाङ्गः कृमिजातिके । भम्भराल्यां प्रसूने च' इत्यधिकमितः प्राक् ख-ग-ध. ५. 'पद्मकोष्ठे' ख-ग-घ. ६. 'कर्मणि' ग-घ. ७. 'खिङ्गयोः' ख.८. 'दुष्टे' गघ. ९. 'शेमण्डके ग-घ. 'छमण्डकः प्रदेशविशेषः' इति टीका. १०. वीचिस्तु तरङ्गे' ख; 'वीचिस्तर' ग-घ. ११. 'जलहस्ती' इति टीका. १२. 'याशिकद्विजे' ख. 'याजकस्य द्विपः' इति टीका. १३. 'प्यण्डजः' ख. १४. 'च्छरटे' ग-घ. 'ककिण्डः कृकलासः' इति टीका. १५. 'मृगनाभ्यां स्याद' ख; 'तु मृगीनाभ्यां' ग-घ. १६. 'सुन्दरे च कम्बोजो' ख. १७. 'संगमयोर' ख. १. मेदिन्यामपि 'काचिघः काञ्चनेऽपि स्याच्छेमण्डे मूषकेऽपि च' इत्येकारप्रथम एव दृश्यते.
For Private and Personal Use Only

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313