Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः। पुराणः षोडशपणे पूरणं वानतन्तुषु । पूरके पिष्टभेदे च (पूरणी शाल्मलिद्रुमे ॥ ८१३ प्रोक्षणं सेकवधयोर्भरणं वेतने भृतौ । भरणी शोणके भे च) भ्रमणी स्यादधीशितुः ॥ ८१४ क्रीडादौ कारुण्डिकायां भीषणं सल्लकीरसे । भीषणो दारुणेर्गाटे मत्कुणोऽश्मश्रुपूरुषे ॥ ८१५ उइंशे नारिकेरे च निर्विषाणगजेऽपि च । मसृणोऽकठिने स्निग्धे मसृणा स्यादतस्यपि ॥ ८१६ मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽथिीन । यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः ॥ ८१७ पटोलमूले जवने रमणो रासभे प्रिये । रोषाणो रोषणे हेमघर्षे पारद ऊपरे ॥ ८१८ रोहिणी सोमवल्के भे कण्ठरोगोमयोर्गवि । लोहिताकटुरोहिण्योलवणो राक्षसे रैसे ॥ ८१९ अस्थिभेदे लवणा लिट् लक्षणं नामचिह्नयोः । लक्ष्मणं च लक्षणस्तु सौमित्रौ लक्ष्मणो यथा ॥८२० लक्ष्मणः श्रीयुते लक्ष्मणौषधौ सारसस्त्रियाम् । वरुणोऽऽप्पतौ वृक्षे वरणो वरुणद्रुमे ॥ ८२१ प्राकारे वरणं वृत्यां वारणः स्यान्मतङ्गजे । वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ ॥ ८२२ वेदे च ब्राह्मणो विप्रे वारुणी पश्चिमा सुरा । गण्डदूर्वा विषाणं तु शङ्गे कोलेभदन्तयोः ।। ८२३ विषाणी मेषशृङ्गयां स्याद्विपणिः पण्यहट्टयोः । पण्यवीथ्यां श्रमणस्तु निम्रन्थे निन्द्यजीविनि ॥८२४ घेवणो नक्षत्रभेदे श्रवणं अवसि श्रुतौ । शरणं रक्षणे गेहे वधरक्षकयोरपि ॥ ८२५ श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे । संकीर्णौ निचिताशुद्धौ सरणिः श्रेणिमार्गयोः॥८२६ सारणः स्यादतीसारे दशकन्धरमत्रिणि । सिंहाणं तु घ्राणमलेऽयःकिट्टे काचभाजने ॥ ८२७ सुषेणो विष्णुसुग्रीववैद्ययोः करमर्दके । सुवर्ण काञ्चने कर्षे सुवर्णाली मखान्तरे ॥ ८२८ कृष्णागुरुणि विस्ते च सुपर्णः कृतमालके । गरुडे स्वर्णचूडे च सुपर्णा विनताब्जिनी ॥ ८२९ हरणं तु हृतौ दोष्णि यौतकादिधनेऽपि च । हरिणौ पाण्डुसारङ्गौ हरिणी चारुयोषिति ॥ ८३० सुवर्णप्रतिमायां च हरितावृत्तभेदयोः । हर्षणस्तु श्राद्धदेवे हर्षके योगरुग्भिदोः ॥ ८३१ हरेणुः कुलयोषायां रेणुकायां सतीनके । हिरणं हिरण्यमिव वराटे हेम्नि रेतसि ॥ ८३२ अमृतं यज्ञशेषेऽम्बुसुधामोक्षेप्वयाचिते । अन्नकाञ्चनयोग्धौ खे स्वादुनि रसायने ॥ ८३३ घृते हृो गोरसे चामृतो धन्वन्तरौ सुरे । अमृतामलकी पथ्यागडूचीमाँगधीषु च ॥ ८३४ अनृतं कर्पणेऽलीके चाक्षतं स्यादहिंसिते । पण्डे लाजेवदितं तु वातव्याधौ हतेऽर्थिते ॥ ८३५ अजितस्तीर्थक-हेदे बुद्धे विष्णावनिर्जिते । अच्युतो द्वादशस्वर्गे केशवाभ्रष्टयोरपि ॥ ८३६ अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः । अनन्तं खे निरवधावनन्तस्तीर्थकृद्भिदि ॥ ८३७ विष्णौ शेषेऽप्यनन्ता तु गडूची भूर्दुरालभा । विशल्या लाङ्गली दूर्वा सारिवा हैमवत्यपि ॥ ८३८ १. धनुश्चिद्वयान्तःपाठो ग-घ-पुस्तकयो स्ति. २. 'अर्गाटोऽपामार्गः' इति टीका. 'गाढे' ग-घ. ३. 'उद्देशे क्षुद्रजन्तौ' इति टीका. 'उद्देशे' ख. ४. 'रुष्यति रोषाणः कल्याणपर्याणादयः इति साधुः' इति टीका. 'रोषणः क्रोधने' ख; रोषणोऽमर्षणे' ग-घ. ५. 'रोमोमयो' ख; 'रोगान्तरे' ग-ध. ६. 'बले' ग-घ. ७. 'अब्धि' ख. ८. 'ब्राह्मणी वाडवस्त्रियाम् । स्पृक्कायां पञ्जिकायां च वारुणी' ख. ९. 'श्रमणा सुलता मांसी मुण्डिनी च सुदर्शना । श्रवणो' ख. १०. 'निबिडा' ख. ११. 'सारणी त्वल्पसरिति प्रसारण्यौषधावपि । सिङ्घाणं' ख. १२. 'विस्त: षष्टिः पलशतानि' इति टीका. 'वित्ते' ख-ग-घ. १३. 'सुवर्णः' ग-घ. १४. 'यौतकद्रव्येऽप्यङ्गहारे भुजे हृतौ' ख; 'च हृतौ' ग-ध. १५. 'शेषाम्बु' ख; 'शेषे तु सुधामोक्षाप्स्वयाचिते' ग-ध. १६. 'स्वे' ग-ध. १७. 'माधवी' ख. १८. 'थिनि'ख. १९. 'सर्गे' ग-घ. १३ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313