Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 181
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ तिर्यकाण्डः । वङ्गं त्रपुः स्वर्णजनागजीवने मृद्वङ्गरङ्गे गुरुपत्रपिच्चटे | स्याच्चक्रसंज्ञं तमरं च नागजं कस्तीरमालीनकसिंहले अपि ॥ म्याट्रूप्यं कलधौतताररजतश्वेतानि दुर्वर्णकं खर्जूरं च हिमांशुहंसकुमुदाभिख्यं सुवर्ण पुनः । स्वर्ण हिरण्यहाटकवसून्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरै गाङ्गेय रुक्माण्यपि ।। कलधौतलोहोत्तमवह्निवीजान्यपि गारुडं गैरिकजातरूपे | तपनीयचामीकरचन्द्रभर्मार्जुननिष्ककार्तस्वरकर्बुराणि || १०४४ १०४६ १०४७ १०४८ १०४९ १०५० १०५९ १०५२ १०५३ जाम्बूनदं शातकुम्भं रजतं भूरि भूत्तमम् । हिरण्यकोशाकुप्यानि हेनि रूप्ये कृताकृते || १०४५ कुप्यं तु तहृयादन्यद्रूष्यं तहृयमाहतम् | अलंकारसुवर्णे तु शृङ्गी कनकमायुधम् ॥ रजतं च सुवर्ण च संश्रिष्टे घनगोलकः । पित्तलारेऽथारकूटः कपिलोहं सुवर्णकम् ॥ रिरी रीरीच रीतिश्च पीतलोहं सुलोहकम्। ब्राह्मी तु राज्ञी कपिला ब्रह्मरीतिर्महेश्वरी ॥ कांस्ये विद्युत्प्रियं घोषं प्रकाशं वङ्गशुल्वजम् । घण्टाशब्दमसुराह्वं रवणं लोहजं मलम् ॥ सौराष्ट्र के पञ्च लोहं वर्तलोहं तु वर्तकम् । पारदः पारतः सूतो हरवीजं रसश्रेलः ॥ अभ्रकं स्वच्छपत्रं खं मेवाख्यं गिरिजामले । स्रोतोञ्जनं तु कापोतं सौवीरं कृष्णयामुने ॥ अथ तुत्थं शिखिग्रीवं तुत्थाञ्जनमयूरके । मूषातुत्थं कांस्यनीलं हेमतारं वितुन्नकम् ॥ स्यात्तु कर्तेरिकातुत्थममृतासङ्गमञ्जनम् । रसगर्भं तार्क्ष्यशैलं तुत्थेदारसोद्भवे ॥ पुष्पाञ्जनं रीतिपुष्पं पौष्पकं पुष्पकेतु च । माक्षिकं तु कदम्वः स्याच्चक्रनामाजेनामके || १०५४ ताप्ये नदीज: कामारिस्तारारिर्विटमाक्षिकः । सौराष्ट्री पार्वती काक्षी कालिका पर्पटी सती ।। १०५५ आढकी तुबरी कंसोद्भवा काक्षी मृदाइया । कासीसं धातुकासीसं खेचरं धातुशेखरम् || १०५६ द्वितीयं पुष्पकासीसं कंसकं नयनौषधम् । गन्धाश्मा शुल्वपामाकुष्टौरिर्गन्धिकगन्धकौ ॥ १०५७ सौगन्धिकः शुकपुच्छो हरितालं तु पिञ्जरम् । विडालकं विस्रुगन्धि खर्जूरं वंशपत्रकम् ।। १०५८ आलपीतनतालानि गोर्दैन्तं नटमण्डनम् । वङ्गारिर्लोमहच्चाथ मनोगुप्ता मनःशिला ॥ करवीरा नागमाता रोचनी रसनेत्रिका | नेपाली कुनटी गोला मनोद्दा नागजिह्विका ॥ 1 सिन्दूरं नागजं नागं रक्तं शृङ्गारभूषणम् । चीनपिष्टं हंसपादकुरुविन्दे तु हिङ्गुलः ॥ शिलाजतु स्याद्द्भिरिजमर्थ्य गैरैयमश्मजम् | क्षारः काचः कुलाली तु स्याच्चक्षुष्या कुलस्थिका ।। १०६२ बोलो गन्धरसः प्राणः पिण्डो गोपरसः शशः । रतं वसु मणिस्तत्र वैदूर्य बालवायजम् || १०६३ मरकतं त्वश्मगर्भे गारुत्मतं हरिन्मणिः । पद्मरागे लोहितकलक्ष्मीपुष्पारुणोपेलाः ॥ १०६४ नीलमणिस्त्विन्द्रनील: सूचीमुखं तु हीरकः । वरारकं रत्नमुख्यं वज्रपर्यायनाम च ॥ विराटजो राजपट्टो राजावर्तोऽथ विद्रुमः । रक्ताङ्को रक्तकन्दश्च प्रवालं हेमकन्दलः ॥ सूर्यकान्तः सूर्यमणिः सूर्याश्मा दहनोपलः | चन्द्रकान्तश्चन्द्रमणिश्चान्द्रश्चन्द्रोपलश्च सः ॥ १०६७ १. चपलोsपि. २. वैष्णवोsपि ३. अरिशब्द: शुल्वादिभिरन्वेति . ४. गोपित्तमपि. ५. नेपालय पि. ६. शृङ्गारमपि ७. हिङ्गलरपि. ८. गोपो रसोऽपि. ९. शोणरत्नमपि. १०५९ १०६० १०६१ १०६५ १०६६ € For Private and Personal Use Only ४१ १०४२ १०४३

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313