Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२
अभिधानसंग्रहः-६ अभिधानचिन्तामणिः ।
उद्भिदः खञ्जनाचोपपादुका देवनारकाः । रसयोनय इत्यष्टावद्भिदुङ्गिज्जमुद्धिदम् ॥ १३५७
इत्याचार्यहेमचन्द्रविचितायामभिधानचिन्तामणी नाममालायां तिर्यकाण्डश्चतुर्थः ॥ ४ ॥ स्युनारकास्तु परेतप्रेतयात्यातिवाहिकाः । आजूर्विष्टिर्यातना तु कारणा तीव्रदेवना ॥ नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः । घनोदधिधनवाततनुवातनभःस्थिताः ॥ रत्नशर्करावालुकापङ्कधूमतमःप्रेभाः। महातमःप्रभा चेत्यधोधो नरकभूमयः ॥ १३६० क्रमात्पृथुतराः सप्ताथ त्रिंशत्पञ्चविंशतिः । पञ्च पञ्चदश त्रीणि लक्षाण्यूनं च पञ्चभिः ॥ १३६१ लक्षं पञ्चैव नरकावासाः सीमन्तकादयः । एतासु स्युः क्रमेणाथ पातालं वडवामुखम् ॥ १३६२ वलिवेश्माधोभुवनं नागलोको रसातलम् । रन्ध्र विलं निर्व्यवनं कुहरं शुषिरं शुषिः ॥ १३६३ छिद्रं रोपं विवरं च निम्नं रोकं वपान्तरम् । गर्तश्वभ्रावटागाधदरास्तु विवरे भुवः ॥ १३६४
___इत्याचार्यहेमचन्द्रविरचितायामभिधानचिन्तामणो नाममालायां नरककाण्डः पञ्चमः ॥ ५॥ स्याल्लोको विष्टपं विश्वं भुवनं जगती जगत् । जीवाजीवाधारक्षेत्रं लोकोऽलोकस्ततोऽन्यथा ॥१३६५ क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी । जीवः स्यादसुमान्सत्वं देहभृज्जन्युजन्तवः ॥ १३६६ उत्पत्तिर्जन्मजनुषी जननं जनिरुद्भवः । जीवेऽसुजीवितप्राणा जीवातुर्जीवनौषधम् ॥ १३६७ श्वासस्तु वसितं सोऽन्तर्मुख उच्छास आहरः । आनो बहिर्मुखस्तु स्यान्निःश्वास: पान एतनः॥१३६८ आयुर्जीवितकालोऽन्तःकरणं मानसं मनः । हृञ्चेतो हृदयं चित्तं स्वान्तं गूढपथोच्चले ॥ १३६९ मनसः कर्म संकल्पः स्यादथो शर्मनिवृतिः । सातं सौख्यं सुखं दुःखं त्वसुखं वेदना व्यथा।।१३७० पीडा बाधातिगभीलं कृच्छं कष्टं प्रसूतिजम् । आमनस्यं प्रगाढं स्यादाधि: स्यान्मानसी व्यथा॥१३७१ सपत्राकृतिनिष्पत्राकृती खत्यन्तपीडने । सुज्जाठराग्निजा पीडा व्यापादो द्रोहचिन्तनम् ॥ १३७२ उपजा ज्ञानमाद्यं स्याचर्चा संख्या विचारणा । वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥१३७३ निर्णयो निश्चयोऽन्तः संग्रधारणा समर्थनम् । अविद्याहंमत्यज्ञाने भ्रान्तिर्मिथ्यामतिभ्रमः ॥ १३७४ संदेहद्वापगरेका विचिकित्सा तु संशयः । परभागो गुणोत्कर्षो दोषे त्वादीनवाश्रवौ ॥ १३७५ स्वाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः । सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः । स्नेहः प्रीतिः प्रेम हार्दे दाक्षिण्यं त्वनुकूलता॥१३७७
विप्रतिसागेऽनुशयः पश्चात्तापोऽनुतापश्च । अवधानसमाधानप्रणिधानानि तु समाधौ स्युः ।।
१३७८ धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः । देवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् ॥१३७९ अलक्ष्मीनि:तिः कालकणिका स्यादथाशुभम् । दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ।। १३८० किल्विषं कलुषं किण्वं कल्मषं वृजिनं तमः । अंहः कल्कमचं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ त्रिवर्गा धर्मकामार्थाश्चतुर्वर्गः समोक्षकाः । बलतूर्याश्चतुर्भद्रं प्रमादोऽनवधानता ॥ १३८२ छन्दोऽभिप्राय आकृतं मतभावाशया अपि । हृषीकमक्षं करणं स्रोतः खं विषयीन्द्रियम् ॥ १३८३ बुद्धीन्द्रियं स्पर्शनादि पाण्यादि तु क्रियेन्द्रियम् । स्पर्शादयस्त्विन्द्रियार्थी विषया गोचरा अपि ॥१३८४
१. यौगिकत्वात्-नारकिक-नैरयिक-नारकीयादयः. २. प्रभाशब्दः प्रत्येकं रतादिभिरन्वयः. ३. दन्त्यादिरित्येके. ४. जीवोऽपि. ५. यौगिकत्वात्-देहभाक् शरीरीत्यादयः ६. अदन्तोऽपि. ७. जीवातुरपि. ८. अनिन्द्रियमपि. ९. विकल्पोऽपि. १०. शर्ममपि. ११. स्वशब्दो रूपादिभिरन्वेति, १२. विप्रतीसारोऽपि. १३. अर्था अपि.
For Private and Personal Use Only

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313