Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ८९२ ॥
Jain Education Inte
aaaa
Bleededaeecele
सुष्ठु तीर्थकापेक्षया प्राधान्येन, आ विधि प्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः, अयं विपश्चितां चेतसि विवर्त्तमानः । कैः ? जिनोत्तमैरवधिजिनादिभ्यः प्रकृष्टैः केवलिभिः । कथम्भूतैः ? भगवद्भिर्व्याख्यात| स्वरूपैरर्हद्भिरिति यावत् । स्वाख्याततामेवाह--यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन, जन्तुरिति गम्यते, न मज्जेद् न ब्रुडेद् भवसमुद्रे ॥ ९२ ॥
स्वाख्यातं धर्ममाह-
संयमः सूनृतं शौचं ब्रह्माऽ किञ्चनता तपः । क्षान्तिर्मार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ९३ ॥
स तु धर्मो दशधा दशप्रकारः । तत्र संयमः प्राणिदया, स सप्तदशविधः । तंत्र पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पश्चेन्द्रियाणां मनो-वाक् कायकर्मभिः करण- कारणानुमतिभिश्च संरम्भ- समारम्भा - ऽऽरम्भवर्जनमिति नवधा । अजीवरूपाण्यपि पुस्तकादीनि दुःषमादोषात् प्रज्ञाबलहीन शिष्यानुग्रहार्थं यतनया प्रतिलेखना - प्रमार्जनापूर्वं धारयतोऽजीवसंयमः । तथा प्रेक्ष्य चक्षुषा स्थण्डिलं बीज-जन्तु - हरितादिरहितं तत्र शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः । गृहस्थान् सावद्यव्यापारप्रसक्तानव्यापारणेनोपेक्षमाणस्योपेक्षासंयमः । प्रेक्षितेऽपि स्थण्डिले रजोहरणादिना प्रमृज्य शयनासनादीन् कुर्वतः स्थण्डिला१ कुतीर्थिका० - मु. ॥ २ तथा पृथि० - शां. ॥ दृश्यतां तत्त्वार्थभाष्ये [ ९/६ ] सिद्धसेनगणिविरचितायां तद्वृत्तौ पृ० १९७-१९८ ॥ ३ शयनादीनि - शां. ॥। ४ शयनादीन् खं. ॥
For Private & Personal Use Only
च
adaaek
चतुर्थः
प्रकाशः
श्लोकः ९३
॥ ८९२ ॥
5
निर्जरा
भावना
वर्णनम्
10
www.jainelibrary.org

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658