Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृत्तिविभूषितं
चतुर्थः प्रकाशः
योगशास्रम्
श्लोको १३१-१३२ ||९६२॥
॥९६२॥
AGRICHRISHBHBIRHEHEREHEREHEHEROHIBIGISTRICICIETIE
स्पष्टम् । यत् पातञ्जलाः-" पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिका कुर्यात् , एतद् भद्रासनम् " [पातञ्जल० तत्त्ववैशारदी २।४६ ] ॥ १३० ॥ अथ दण्डासनम्
श्लिष्टाङ्गुली श्लिष्टगुल्फो भूश्लिष्टोरू प्रसारयेत् ।
यत्रोपविश्य पादौ तद् दण्डासनमुदीरितम् ॥ १३१ ॥ स्पष्टम् । यत् पातञ्जलाः-“उपविश्य श्लिष्टाङ्गुलीको श्लिष्टगुल्फो भूमिश्लिष्टजचौ च पादौ प्रसार्य दण्डासनमभ्य स्येत्” [पातञ्जल० तत्त्ववैशारदी २।४६ ] ॥ १३१ ॥ अथोत्कटिकासन-गोदोहिकासने--
पुतपाणिसमायोगे प्राहुरुत्कटिकासनम् ।
पाणिभ्यां तु भुवस्त्यागे तत् स्याद्गोदोहिकासनम् ॥ १३२ ॥ पुतयोः पाणिभ्यां भूमिसंलग्नाभ्यां योगे उत्कटिकासनं प्राहुः, यत्र भगवतः श्रीवीरस्य केवलज्ञानमुत्पन्नम् । १ दृश्यतां पृ०९५६॥
HESHCHCHEHEHEREHEETEHEHEHEICHEMEHCHEHREHEHSHISHEI
का ध्यानसाधा
नोपयोगिनामासनानां स्वरूपम्
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658