Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 656
________________ ॥९६७ ॥ HaHakahaMOREHEREHEREHEHEREICHCHCHCHCHHEKSHEKCIRHCHETA सुखं सुखावह आस्यतेऽनेन आस्ते वाऽनेन तदासनम् , सुखं च तदासनं च तेनासीनः, अनेनासनजयमाह। सुश्लिष्टी मिलितावधरपल्लवी यस्य स तथा, अनेन माणपसरनिषेधमाह। नासाग्रे न्यस्तं दृग्द्वन्द्वं येन स तथा, अनेन प्राणजयस्य । हेतुमाह । दन्तैरुपरितनैरधस्तनैश्च दन्तानुपरितनानधस्तनांश्चासंस्पृशन् , तत्संस्पर्श हि ध्याननिश्चलता न स्यात् । तथा प्रसन्न रजस्तमोरहितत्वेन प्रसादवत् भ्रूविक्षेपादिरहितं वदनं यस्य सः तथा। पूर्वाभिमुखो वा उदग्मुखो वा, अनेनानयोर्दिशोः पूज्यत्वमाह। जिन-जिनमतिमाभिमुखो वा। अप्रमत्तः प्रमादरहितः, अनेन मुख्यमधिकारिणमाह । यदाह-- "धर्म्यमप्रमत्तसंयतस्य" [ तत्त्वार्थ० ९।३७] शोभनमृज्वायतमूर्तिकं संस्थानं शरीरसनिवेशो यस्य स तथा। एवंविधः सन् ध्याता ध्यानोद्यतो भवेत् ध्याने उद्यच्छेत् । इति निगदितमेतत् साधनं ध्यानसिद्धे यति-गृहिगतमेदाद्विरत्नत्रयं च। सकलमपि यदन्यद् ध्यानभेदादि सम्यक्, प्रकटितमुपरिष्टादष्टभिस्तत् प्रकाशैः ॥ १॥ १३५ ॥ १३६ ॥ १ नयोर्देशयोः-खं. ॥ २ जिनप्रतिमाभिमुखो-शां.॥ ।। ९६७॥ Jain Education Intem For Private & Personal Use Only S w .jainelibrary.org

Loading...

Page Navigation
1 ... 654 655 656 657 658