Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ९६४ ॥
Jain Education Int
आम्रकुब्जासनम् आम्राकारतयाऽवस्थितिः, यथा भगवान् महावीर एकरात्रिकीं प्रतिमां श्रितः संगमकसुराधमेन विहितां विंशतिमुपसर्गाणामधिसेहे । तथा एकपार्श्वशायित्वम्, तच्चोर्ध्वमुखस्याधोमुखस्य तिर्यङ्मुखस्य वा भवति । तथा | दण्डायतशायित्वम् ऋजूकृतशरीरस्य प्रसारितजङ्घोरुद्वयस्य चलनरहितस्य तद्भवति । तथा लगण्डशायित्वं मूर्ध्नः पायश्च भूमिस्पर्शे शरीरेण च भूमेरस्पर्शे तद्भवति । तथा समसंस्थानं यत् पार्ण्यग्रपादाभ्यां द्वयोराकुञ्चितयोरन्योन्यपीडनम् । तथा दुर्योधनासनं यद्धमिप्रतिष्ठितशिरस उत्पादमवस्थानं कपालीकरणमिति च प्रसिद्धम्, तस्मिन्नेव यदा जछे पद्मासनीकृते भवतस्तदा दण्डपद्मासनम् । तथा स्वस्तिकासनं यत्र सव्यमाकुश्चितं चरणं दक्षिणजङ्घोर्वन्तरे निक्षिपेत् दक्षिणं चाकुञ्चितं वामजङ्कोर्वन्तरे इति । तथा सोपाश्रयं योगपट्टकयोगाद् यद् भवति । तथा क्रौञ्चनिषदन- हंसनिषदन-श्वनिषदन- हस्तिनिषदनगरुड निषदनादीन्यासनानि कौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येतव्यानि । तदेवं न व्यवतिष्ठते आसनविधिः ॥१३३॥ ॐ सना
नामा
स्वरूपम्
10
ततः
जायते येन येनेह विहितेन स्थिरं मनः ।
तत्तदेव विधातव्यमासनं ध्यानसाधनम् ॥ १३४ ॥
१ ०कृतस्य शरीरस्य- शां. ॥ २ दुर्योधासनं- मु. शां. । संपू० मध्ये पत्रमत्र खण्डितम् ॥ ३ को शां. सं. संपू | मध्येऽत्र पत्रं खण्डितम् ॥ ४ क्रोञ्चा०-खं. ॥
For Private & Personal Use Only
Heeeee
चतुर्थः
प्रकाशः
श्लोकः १३४
॥ ९६४ ॥
5
ध्यानसाध
नोपयोगि
www.jainelibrary.org

Page Navigation
1 ... 651 652 653 654 655 656 657 658