SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥ ९६४ ॥ Jain Education Int आम्रकुब्जासनम् आम्राकारतयाऽवस्थितिः, यथा भगवान् महावीर एकरात्रिकीं प्रतिमां श्रितः संगमकसुराधमेन विहितां विंशतिमुपसर्गाणामधिसेहे । तथा एकपार्श्वशायित्वम्, तच्चोर्ध्वमुखस्याधोमुखस्य तिर्यङ्मुखस्य वा भवति । तथा | दण्डायतशायित्वम् ऋजूकृतशरीरस्य प्रसारितजङ्घोरुद्वयस्य चलनरहितस्य तद्भवति । तथा लगण्डशायित्वं मूर्ध्नः पायश्च भूमिस्पर्शे शरीरेण च भूमेरस्पर्शे तद्भवति । तथा समसंस्थानं यत् पार्ण्यग्रपादाभ्यां द्वयोराकुञ्चितयोरन्योन्यपीडनम् । तथा दुर्योधनासनं यद्धमिप्रतिष्ठितशिरस उत्पादमवस्थानं कपालीकरणमिति च प्रसिद्धम्, तस्मिन्नेव यदा जछे पद्मासनीकृते भवतस्तदा दण्डपद्मासनम् । तथा स्वस्तिकासनं यत्र सव्यमाकुश्चितं चरणं दक्षिणजङ्घोर्वन्तरे निक्षिपेत् दक्षिणं चाकुञ्चितं वामजङ्कोर्वन्तरे इति । तथा सोपाश्रयं योगपट्टकयोगाद् यद् भवति । तथा क्रौञ्चनिषदन- हंसनिषदन-श्वनिषदन- हस्तिनिषदनगरुड निषदनादीन्यासनानि कौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येतव्यानि । तदेवं न व्यवतिष्ठते आसनविधिः ॥१३३॥ ॐ सना नामा स्वरूपम् 10 ततः जायते येन येनेह विहितेन स्थिरं मनः । तत्तदेव विधातव्यमासनं ध्यानसाधनम् ॥ १३४ ॥ १ ०कृतस्य शरीरस्य- शां. ॥ २ दुर्योधासनं- मु. शां. । संपू० मध्ये पत्रमत्र खण्डितम् ॥ ३ को शां. सं. संपू | मध्येऽत्र पत्रं खण्डितम् ॥ ४ क्रोञ्चा०-खं. ॥ For Private & Personal Use Only Heeeee चतुर्थः प्रकाशः श्लोकः १३४ ॥ ९६४ ॥ 5 ध्यानसाध नोपयोगि www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy