________________
॥ ९६३ ॥
Jain Education Inten
64
यदाह
'जंभियबहि उजुवालिअतीर विसाहसियद समिपहरति । छोकडु अअिस्स केवलं आसि सालतले || १ || "
]
तदेवोत्कटिकासनं गोदोहिकासनं गोदोहकसमाकारत्वात् पाणिभ्यां भुवस्त्यागे सति । इदं च प्रतिमाकल्पिकादीनां विधेयतयोपदिष्टम् ।। १३२ ॥ अथ कायोत्सर्गः -
प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्यासितस्य वा ।
स्थानं कायानपेक्षं यत् कायोत्सर्गः स कीर्तितः ॥ १३३ ॥
लम्बितं भुजयेोर्द्वन्द्वं यत्र तत्तथा, कायानपेक्षं स्थानं स कायोत्सर्गे नामासनमूर्ध्वस्थस्यासितस्य वा । ऊर्ध्वस्थितानां कायोत्सर्गे जिनकल्पिकादीनां छद्मस्थतीर्थकराणां च भवति, ते हि ऊर्ध्वजैव एवासते, स्थविरकल्पिकानां तु ऊर्ध्वस्थितानामासितानां वा उपलक्षणात् शयितानां वा यथाशक्ति भवति, कायोत्सर्ग इति स्थान- ध्यान- मानक्रियाव्यतिरेकेण क्रियान्तरसंबन्धिनः कायस्योत्सर्ग त्याग इत्यर्थः । इदं चासनानां दिक् प्रदर्शनमात्रमुक्तमासनान्तराणामुपलक्षणार्थम्, तथाहि-
१ जृम्भिकाया बहिः ऋजुवालुकातीरे वैशाखसितदशमी प्रहरत्रिके । षष्ठेन उत्कटुकस्थितस्य केवलम् आसीत् सालतले ॥ तुला - "जंभियबहि उजुवालियतीर विद्यावत्त सामसालअहे । छट्ठेणुक्कुड्यस्स उ उप्पण्णं केवलं णाणं ।। ५२६ ।। " इति आवश्यकनियुक्तौ ॥ २ ०तीरे मु.॥ ३ ऊर्ध्वशव एवा० - शां. । “संप्राजानोर्मुक्षौ । वोर्ध्वात् " - सि० ७ । ४ । १५५ - १५६ ॥ इति सूत्रादयमपि पाठ: समीचीन एव ॥ ऊर्ध्वस्था एवा० - खं । संपू. मध्येऽत्र पत्रं खण्डितम् ॥
For Private & Personal Use Only
adedaieeeeeeeeeeeeeeeeeeeeeee
10
॥ ९६३ ॥
•ww.jainelibrary.org