Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥९५१ ॥
"नाणकिरियाहि मोक्खो" [विशेषावश्यकभाष्ये गा० ३] इति । एवंविधानां मुनीनां गुणेषु क्षायोपशमिकादिभावावर्जितेषु शम-दमौचित्य-गाम्भीर्य-धैर्यादिषु यः पक्षपातो विनयप्रयोग-वन्दन-स्तुति-वर्णवाद-वैयापृत्यकरणादिभिः परात्मोभयकृतपूजाजनितश्च सर्वेन्द्रियाभिव्यक्तो मनःप्रहर्षः स प्रमोदः । मप्रकीर्तितः ॥ ११९॥ अथ कारुण्यस्वरूपमाह
दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् ।
प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥ १२०॥ ____दीनेषु मतिश्रुताज्ञान-विभङ्गबलेन प्रवर्तितकुशास्त्रेषु स्वयं नष्टेषु परानपि नाशयत्सु अत एव दयास्पदत्वाद्दीनेषु । तथाऽऽर्तेषु नवनवविषयार्जन-पूर्जितपरिभोगजनिततृष्णाग्निना दन्दह्यमानेषु, हिताहितप्राप्तिपरिहारविपरीतवृत्तिषु अर्थार्जनरक्षण-व्यय-नाशपीडावत्सु च। तथा भीतेषु विविधदुःखपीडिततया अनाथ-कृपण-बाल-वृद्ध-प्रेष्यादिषु सर्वतो विभ्यत्सु । तथा वैरिभिराक्रान्तेपु रोगपीडितेषु मृत्युमुखमधिशयितेष्विव याचमानेषु पार्थयमानेषु जीवितं प्राणत्राणम् । एषु दीनादिषु 'अहो है। कुशास्त्रप्रणेतारः तपस्विनो यदि कुमार्गप्रणयनान्मोच्येरन् , भगवानपि हि भुवनगुरुः उन्मार्गदेशनात् सागरोपमैकोटीकोटी
यावद्भवे भ्रान्तः, तत् काऽन्येषां स्वपापप्रतीकारं कर्तुमशक्नुवतां गतिः?,' तथा ' धिगमी विषयार्जनभोगतरलहृदया अनन्तके १ ज्ञानक्रियाभ्यां मोक्षः॥ २ वैयावृत्य०-हे। वैयावृत्त्य-मु.॥ ३ वृत्तिषु रोगपीडितेषु अर्थार्जन०-शां.॥
४ ०बाल-नास्ति मु. ॥ ५ एतेषु-मु.॥ ६ ०कोटिकोटिं-मु.॥
Jain Education Inten
For Private & Personal use only
Jww.jainelibrary.org

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658