Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 642
________________ ॥९५३॥ उपदेष्टारश्च, तान् रक्त-द्विष्ट-मूढ-पूर्वव्युद्ग्राहिततया निन्दन्तीत्यवंशीलाः तेषु, तथाविधा अपि कथञ्चन वैराग्यदशापन्ना आत्मदोषदर्शिनो नोपेक्षणीयाः स्युरित्याह-आत्मशंसिषु, आत्मानं सदोषमपि शंसन्ति प्रशंसन्तीत्येवंशीला आत्मबहुमानिन इत्यर्थः, तेषु मुद्गशैलेष्विव पुष्करावर्त्तवारिभिर्मूदूकर्तुमशक्येषु देशनाभिः योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ १२१ ॥ __ अथ यदुक्तं 'धर्मध्यानमुपस्कर्तुम्' [४।११७] इति तद्विवेचयति आत्मानं भावयन्नाभिर्भावनाभिर्महामतिः। त्रुटितामपि संधत्ते विशुद्धध्यानसंततिम् ॥ १२२ ॥ स्पष्टम् ॥ १२२ ॥ ध्यानसाधनाय स्थानं निर्दिशति तीर्थं वा स्वस्थताहेतुं यत्तद्वा ध्यानसिद्धये । कृतासनजयो योगी विविक्तं स्थानमाश्रयेत् ॥ १२३ ॥ तीर्थ तीर्थकृतां जन्म-दीक्षा-ज्ञान-निर्वाणभूमिम् , तदभावे स्वास्थ्यहेतुं यत्तद्वा गिरिगुहादि विविक्तं स्त्री-पशु-पण्डकादिकरहितं स्थानमाश्रयेत। यदाहहे १०ततिप्रसंसया निन्दन्ती०-शां. ॥ २ ल्हामुनिः-खं. ॥ ३ निर्वाणहेतुं-खं. ॥ ॥९५३॥ Jain Education Int For Private & Personal soww.jainelibrary.org

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658