Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 646
________________ ॥९५७ ॥ आसनस्य भेदानाह--तद्यथेति। तत्र पद्माद्यासनचतुष्टयस्य लक्षणं वसिष्ठेनोक्तम्“अगुष्ठौ सन्निबध्नीयाद् हस्ताभ्यां व्युत्क्रमेण तु। ऊर्वोरुपरि विप्रेन्द्र ! कृत्वा पादतले उमे॥ पद्मासनं भवेदेतत् सर्वेषामेव पूजितम् । एकपादमथैकस्मिन् विन्यस्योरौ च संस्थितः॥ इतरस्मिंस्तथा पादं वीरासनमुदाहृतम्।” [ ] अस्यैवार्द्धम सनमप्युच्यते। तथा"गुल्फी च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत्। पार्श्वपादौ च पाणिभ्यां दृढ़ बद्धा सुनिश्चलः॥ भद्रासनं भवेदेतत् सर्वव्याधिविषापहम्। जानूऊरन्तरे सम्यक् कृत्वा पादतले उमे॥ ऋजुकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते।" [ ] इतराण्यासनानि योगप्रदीपायुक्तानि संक्षेपात् कथ्यन्ते दण्डासनम् = उपविश्य क्लिष्टाङ्गुलिको श्लिष्टगुल्फो भूमिश्लिष्टजवोरुपादौ प्रसार्य दण्डवच्छयनम् , सोपाश्रयं योगपट्टयोगेनोपवेशनम्, पर्यढुंच जानुप्रसारितबाहोः शयनम् , क्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येत. व्यानि, जानुनोरुपरि हस्तौ कृत्वा कायशिरोग्रीवस्यावक्रभावेनावस्थानं समवस्थानम् , स्थिरसुखं च सूत्रोपात्तम्। तस्य व्याख्यानं कायथासुखमिति । आदिशब्देन मायूराद्यासनानि ग्राह्याणि । यावत्यो जीवजातयस्तावन्त्येवासनानीति संक्षेपः ॥२॥४६॥” इति कपातञ्जलयोगदर्शनभाष्यस्य विज्ञानभिक्षुविरचिते योगवार्तिके॥ “अनशना-ऽवमौदर्य वृत्तिपरिसङ्ख्यान-रसपरित्याग-विविक्तशयनासन-कायक्लेशा बाह्य तपः॥९.१९॥” इति तत्त्वार्थसूत्रे॥ "कायक्लेशोऽनेकविधः। तद्यथा-स्थान-वीरासनोत्कटुकासनैकपार्श्वदण्डायतशयना-ऽऽतापना-ऽप्रावृतादीनि ॥” इति तत्त्वार्थभाष्ये ॥ For Private & Personal Use Only ॥ ९५७॥ Jain Education Internatio ainelibrary.org

Loading...

Page Navigation
1 ... 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658