Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।।९५५॥
ध्यानसिद्धये योगी स्थानमाश्रयेदिति संबन्धः । किंविशिष्टः कृतासनजयः, कृत आसनानां कायसन्निवेशविशेषाणां वक्ष्यमाणस्वरूपाणां जयोऽभ्यासो येन स तथा ॥ १२३ ॥ अथासनान्येवाह
पर्यक-वीर-चाऽब्ज-भद्र-दण्डासनानि च ।
उत्कटिका गोदोहिका कायोत्सर्गस्तथासनम् ॥ १२४ ॥ पर्यङ्कादिषु प्रत्येकमासनशब्दः संबध्यते ॥ १२४ ।। क्रमेणासनानि व्याचष्टे
स्याज्जवयोरधोभागे पादोपरि कृते सति ।
पर्यङ्को नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ १२५ ॥ जङ्घन्योरधोभागे पादोपरि कृते सति पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र, दक्षिण उत्तर उपरिवर्ती यत्र तत्तथा, एतत् पर्यङ्को नाम शाश्वतप्रतिमानां श्रीमहावीरस्य च निर्वाणकाले आसनम् , यथा-पर्यङ्कः पादोपरि भवति तथाऽयमपीति पर्यः । “जानुप्रसारितबाहोः शयनं पर्यङ्कः" [ पातञ्जल० तत्त्ववैशारदी २।४६] इति पातञ्जलाः ॥ १२५॥
१ दक्षिणोत्तरोपरिवर्ती-मु.॥ दक्षिण उत्तरपरिवर्ती-खं. हे. ॥ २ “स्थिरसुखमासनम् ॥ २॥४६॥” इति पातञ्जलयोगसूत्रे।
॥
५५॥
Jain Education Internal
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658