Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 641
________________ स्वोपक्ष चतुर्थः वृत्ति विभूषितं योगशास्त्रम् प्रकाशः श्लोकः १२१ ॥९५२॥ । 5 ॥ ९५२॥ भवानभूतेष्वपि विषयेष्वसंतृप्तमनसः कथं नाम प्रशमामृततृप्ततया वीतरागदशां नेतुं शक्याः ?' इति, तथा 'बाल-वृद्धादयोऽपि विविधभयहेतुभ्यो भीतमनसः कथं नामैकान्तिकात्यन्तिकभयवियोगभाजनीकरिष्यन्ते? ' इति, तथा 'मृत्युमुखमधिशयिताः स्वधन-दार-पुत्रादिवियोगमुत्प्रेक्षमाणा मारणान्तिकी पीडानुभवन्तः सकलभयरहितेन पारमेश्वरवचनामृतेन सिक्ताः कथमजरामरीकरिष्यन्ते ?' इत्येवं प्रतीकारपरा या बुद्धिः, न तु साक्षात्मतीकार एव, तस्य सर्वेष्वशक्यक्रियत्वात् , सा कारुण्यमभिधीयते। या तु अशक्यप्रतीकारेषु ‘सर्वान् जन्तून् मोचयित्वा मोक्षं यास्यामि' इति सौगतानां करुणा न सा करुणा, वामात्रत्वात् , न ह्येवं शक्यं भवितुं 'सर्वसंसारिषु मुक्तेषु मया मोक्तव्यम्' इति, संसारोच्छेदप्रसङ्गेन सर्वसंसारिणां मुक्त्यभावात् , तस्माद्वामात्रमेतत् मुग्धजनप्रतारकं सौगतानां कारुण्यम् । एतच्च कुर्वन् हितोपदेश-कालापेक्षान-पाना-ऽऽश्रय-वस्त्रभेषजैरपि ताननुगृह्णातीति ॥ १२० ॥ अथ माध्यस्थ्यस्वरूपमाह क्रूरकर्मसु निःशङ्कं देवता-गुरुनिन्दिषु । आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ १२१ ॥ क्रूराणि अभक्ष्यभक्षणा-ऽपेयपाना-अगम्यागमन-ऋषिबालस्त्रीभ्रूणघातादीनि कर्माणि येषां तेषु, तेऽपि कदाचिदवाप्तसंवेगा नोपेक्षणीयाः स्युरत आह- देवता-गुरुनिन्दिषु, देवताश्चतुस्त्रिंशदतिशयादियुक्ता वीतरागाः, गुरवः तदुक्तानुष्ठानस्य पालका १ भैषजै०-शांखं. ॥ MOHCHHTHHHHEGHEHEHEHEHEREHEHREHEHENGHEHCHERENCHEHER धर्मध्यानार्थ मैत्र्यादिभावनाचतुष्टयस्य स्वरूपम् 10 Jain Education in For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658