Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 630
________________ ।। ९४१ ।। Jain Education Int | मनःप्रवीचाराः परेष्यप्रवीचाराः प्रवीचारवद्भ्यो देवेभ्योऽनन्तगुणमुखा इति । अयमधस्तिर्यगूर्ध्वभेदो लोकः । अस्य च मध्ये | रज्जुप्रमाणायामविष्कम्भा ऊर्ध्वाधचतुर्दशरज्ज्वात्मिका त्रसनाडी, वसा: स्थावराश्च जीवा अत्र भवन्तीति कृत्वा । त्रसनाब्या बहि: स्थावरा एव जीवा भवन्तीति ॥ १० ॥ लोकस्यैव स्वरूपविशेषमाह- निष्पादितो न केनापि न धृतः केनचिच्च सः । स्वयंसिद्ध निराधारो गगने किं त्ववस्थितः ।। १०६ ॥ निष्पादितः कृतो न केनापि प्रकृती - वर - विष्णु-ब्रह्म- पुरुषप्रभृतीनामन्यतमेन । प्रकृतेरचेतनत्वात् कर्तुत्वानुपपत्तेः । ईश्वरादीनां च न कर्तृत्वं प्रयोजनाभावात् । क्रीडा प्रयोजनमिति चेत् न, क्रीडायाः कुमारकाणामिव रागिणामेव संभवात्, क्रीडासाध्यायाश्च प्रीतेस्तेषां शाश्वतिकत्वात्, क्रीडानिमित्तायां तु प्रीतौ तेषां पूर्वमतृप्तत्वमसङ्गः । कृपया प्रवृत्तिरिति चेत् तर्हि मुख्येव सर्गः स्यात्, न दुःखी । कर्मापेक्षः सुख-दुःखमयः सर्ग इति चेत् तर्हि कर्मैव कारणमस्तु । कर्मापेक्षत्वे चैषां | स्वातन्त्र्यविघातः । कर्मजन्ये च वैचित्र्ये किमीश्वरादिभिः प्रयोजनम् ? । अथ प्रयोजनमन्तरेणैव तेषां सर्गक्रमः, तदयुक्तम्, न हि प्रयोजनमन्तरेण बालोऽपि किञ्चित् करोति, तस्मान्न केनचिदयं लोको निष्पादित इति । १ एतच लोकस्वरूपं त्रिशलाकापुरुषचरितेऽपि द्वितीये पवणि तृतीये सर्गे [ श्लो० ४७९-८०० ] प्राय ईशमेव वर्णित मस्ति । जिज्ञासुभिस्तत्र द्रव्यम् ॥ २ विशेषस्वरूपमाह-मु.॥ & Personal Use Only 10 || 3.82 || www.jainelibrary.org

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658