Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 628
________________ ॥९३९॥ तत्र प्रथमौ कल्पौ घनोदधिप्रतिष्ठानौ। तदुपरि त्रयो वायुप्रतिष्ठानाः। ततः परं त्रयो घनोदधि-घनवातप्रतिष्ठानाः।। तदुपर्याकाशप्रतिष्ठानाः तेष्विन्द्र-सामानिक-त्रायस्त्रिंश-पारिषद्या-ऽऽत्मरक्ष-लोकपाला-ऽनीक-प्रकीर्णका-ऽऽभियोग्य-किल्बिषिका देवाः। तत्रेन्द्राः सामानिकादिभेदानां नवानामधिपतयः। इन्द्रसमानाः सामानिका अमात्य-पितृ-गुरूपाध्याय-महत्तरवत् । केवलमिन्द्रत्वहीनाः १। बायस्त्रिंशा मन्त्रि-पुरोहितस्थानीयाः २। पारिषद्या वयस्यस्थानीयाः ३। आत्मरक्षा अङ्गरक्षस्थानीयाः ४। लोकपाला आरक्षिकार्थचरस्थानीयाः ५। अनीकान्यनीकस्थानीयानि, तदधिपतयो दण्डनायकस्थानीया अप्यनीकानि ६। प्रकीर्णकाः पौर-जनपदस्थानीयाः ७। आभियोग्या दासस्थानीयाः ८। किल्लिषिका अन्तस्थस्थानीयाः ९। त्रायस्त्रिंश-लोकपालवर्जा व्यन्तर-ज्योतिष्काः। सौधर्म विमानानां द्वात्रिंशल्लक्षाः। ऐशानेऽष्टाविंशतिः। सनत्कुमारे द्वादश। माहेन्द्रेऽष्टौ। ब्रह्मलोके चत्वारः। लान्तके पञ्चाशत् सहस्राणि । महाशुक्रे चत्वारिंशत् सहस्राणि, सहस्रारे षट् । आनत-प्राणतयोश्चत्वारि शतानि, आरणा-ऽच्युतयोस्त्रीणि। प्रथमे ग्रैवेयकत्रिके एकादशोत्तरं शतम् । मध्यमत्रिके सप्तोत्तरम् । उपरित्रिके एकमेव शतम् । अनुत्तरविमानानि पश्चैव इति। १ किल्बिषा देवाः-खं. ॥ २ आरक्षकार्थ-मुः। तत्त्वार्थभाष्ये [४।४] 'आरक्षिकार्थचरस्थानीयाः' इत्येव पाठः। "लोकपाला आरक्षकार्थचरस्थानीयाः, स्वविषयसन्धिरक्षणनिरूपिता आरक्षकाः, अर्थचराश्चौरोद्धरणिकराजस्थानीयादयः, तत्सदृशा लोकपालाः" इति तु सिद्धसेनगणिविरचितायां तत्त्वार्थटीकायाम् पृ० २७६॥ ३ अन्तजस्थानीयाः-शां.। “अन्तस्थाः चण्डालादयः, तद्वत् किल्बिषिका देवानां मध्ये" इति तत्त्वार्थटीकायां सिद्धसेनगणिविरचितायाम् ४॥४॥ ४ मध्यमे त्रिके-मु. शां.॥ ॥९३९॥ Jain Education Intem For Private & Personal Use Only e ww.jainelibrary.org

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658