Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 634
________________ ।। ९४५ ॥ Jain Education Inter elaieeeet अभव्या अपि चारित्रं प्राप्य ग्रैवेयकादिषु । उत्पद्यन्ते विना बोधिं त्वाप्नुवन्ति न निर्वृतिम् ॥ ८ ॥ असंप्राप्ते बोधिरत्ने चक्रवर्त्यपि रङ्कवत् । संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात्ततोऽधिकः ॥ ९ ॥ संप्राप्तबोधयो जीवा न रज्यन्ते भवे क्वचित् । निर्ममत्वा भजन्त्येकं मुक्तिमार्गमनर्गलाः ॥ १० ॥ ये प्राप्ताः परमं पदं तदपरे प्राप्स्यन्ति ये केऽपि वा, ये वा केचिदवाप्नुवन्ति विकसत्पुण्यर्द्धयः संप्रति । सर्वेऽप्यप्रतिमप्रभावविभवां बोधिं समासाद्य ते, तस्माद्बोधिरुपास्यतां किमपरं संस्तूयतां स्तूयताम् ॥ ११ ॥ भावना १२ ॥ १०९ ॥ ॥ भावनां निर्ममत्वहेतुकामुपसंहरन् प्रकृते समत्वे योजयति--- भावनाभिरविश्रान्तमिति भावितमानसः । निर्ममः सर्वभावेषु समत्वमवलम्बते ॥ ११० ॥ स्पष्टः ॥ ११० ॥ साम्यस्यैव फलमाह -- विषयेभ्यो विरक्तानां साम्यवासितचेतसाम् । उपशाम्येत् कषायाभिर्बोधदीपः समुन्मिषेत् ॥ १११ ॥ १ निवृतिम् - संपू. । निवृत्तिम्-हे . ॥ २ स्तूयतां नास्ति खं । श्रूयताम् मु. ॥ इति बोधि० - मु. ॥ ४ ० बधिदीप:-मु. ॥ For Private & Personal Use Only 10 119.84 11 www.jainelibrary.org

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658