Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 616
________________ | ९२७॥ शतानि लवणजलधिमयगाह्य त्रिशतायामविष्कम्भो लाङ्गुलिकमनुष्यावासो लाङ्घलाभिधानः प्रथमोऽन्तरद्वीपः । तथोत्तरा परस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य त्रिशतायामविष्कम्भो वैषाणिकमनुष्यावासो वैषाणिकाभिधानः प्रथमोऽन्तरद्वीपः। ततश्चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भा एवमेव हयकर्णानां गजकर्णानां गोकर्णानां शकुलिकर्णानां चत्वारोऽन्तरद्वीपाः। ततः पञ्च शैतान्यवगाह्य पञ्चयोजनशतायामविष्कम्भा आदर्शमुखानां मेषमुखानां हयमुखानां गजमुखानामन्तरद्वीपाः । ततः षट् योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखाणामन्तरद्वीपाः । ततः सप्त योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्वकर्णानां सिंहकर्णानां हस्तिकर्णानां कर्णभावरणानामन्तरद्वीपाः । ततोऽष्टौ योजनशतान्यवगाह्य तावदायामविष्कम्भा उल्कामुखानां विद्युज्जिह्वानां मेषमुखाणां विद्युदन्तानामन्तरद्वीपाः । ततो नव योजनशतान्यवगाव तावदायामविष्कम्भा घनदन्तानां गूढदन्तानां श्रेष्ठदन्तानां शुद्धदन्तानामन्तरद्वीपाः। एतेषु च मनुष्या युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चा भवन्ति । तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽपि पूर्वोत्तरादिविदिक्षु अमनैव क्रमेण नामकलापेन चान्तरद्वीपकानामष्टाविंशतिर्भवति, मिलिताः षट्पञ्चाशदन्तरद्वीपका भवन्ति । १ योजनत्रिशता-मु.॥ २ योजनत्रिशता-मु.॥ ३ योजनशता०-मु.॥ ॥ ९२७॥ Jain Education Inter For Private & Personal Use Only pw.jainelibrary.org

Loading...

Page Navigation
1 ... 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658