________________
| ९२७॥
शतानि लवणजलधिमयगाह्य त्रिशतायामविष्कम्भो लाङ्गुलिकमनुष्यावासो लाङ्घलाभिधानः प्रथमोऽन्तरद्वीपः । तथोत्तरा परस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य त्रिशतायामविष्कम्भो वैषाणिकमनुष्यावासो वैषाणिकाभिधानः प्रथमोऽन्तरद्वीपः।
ततश्चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भा एवमेव हयकर्णानां गजकर्णानां गोकर्णानां शकुलिकर्णानां चत्वारोऽन्तरद्वीपाः।
ततः पञ्च शैतान्यवगाह्य पञ्चयोजनशतायामविष्कम्भा आदर्शमुखानां मेषमुखानां हयमुखानां गजमुखानामन्तरद्वीपाः । ततः षट् योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखाणामन्तरद्वीपाः । ततः सप्त योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्वकर्णानां सिंहकर्णानां हस्तिकर्णानां कर्णभावरणानामन्तरद्वीपाः । ततोऽष्टौ योजनशतान्यवगाह्य तावदायामविष्कम्भा उल्कामुखानां विद्युज्जिह्वानां मेषमुखाणां विद्युदन्तानामन्तरद्वीपाः । ततो नव योजनशतान्यवगाव तावदायामविष्कम्भा घनदन्तानां गूढदन्तानां श्रेष्ठदन्तानां शुद्धदन्तानामन्तरद्वीपाः।
एतेषु च मनुष्या युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चा भवन्ति । तथैरावतक्षेत्रविभागकारिणः शिखरिणोऽपि पूर्वोत्तरादिविदिक्षु अमनैव क्रमेण नामकलापेन चान्तरद्वीपकानामष्टाविंशतिर्भवति, मिलिताः षट्पञ्चाशदन्तरद्वीपका भवन्ति ।
१ योजनत्रिशता-मु.॥ २ योजनत्रिशता-मु.॥ ३ योजनशता०-मु.॥
॥ ९२७॥
Jain Education Inter
For Private & Personal Use Only
pw.jainelibrary.org