Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
इय वीसं बावन्नं च जिणहरे गिरिसिरेसु संथुणिमो।
इंदाणिरायहाणिसु बत्तीस सोलस व वंदे ॥ २४ ॥" [ नन्दीश्वरद्वीपपरिक्षेपी नन्दीश्वरः समुद्रः । ततः परमरुणो द्वीपः, अरुणोदः समुदः। ततोऽरुणवरो द्वीपः, अरुणवरः ।। समुद्रः। ततोऽरुणाभासो द्वीपः, अरुणाभासः समुद्रः। तथा कुण्डलो द्वीपः, कुण्डलोदः समुद्रः। ततो रुचको द्वीपः, रुचकः समुद्रः । एवं प्रशस्तनामानो द्विगुणद्विगुणमाना द्वीप-समुद्राः। अन्त्यः स्वयम्भूरमणः समुद्रः।
एषां च मध्येऽर्धतृतीयद्वीपेषु भैरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरूभ्यः। कालोद-पुष्कर-स्वयंभूरमणा उदकरसाः। लवणोदो लवणरसः। वारुणोदश्चित्रपानवत् । क्षीरोदः खण्डादिमिश्रघृतचतुर्भागगोक्षीररसवान् । घृतोदः सुक्कथितसद्योविस्यन्दितगोघृतरसः। शेषाश्चतुर्जातकयुक्तंत्रिभागच्छिन्नेक्षुरसवज्जलाः। लवण-कालोद-स्वयंभूरमणा बहुमत्स्य-कच्छपाः, नेतरे।
तथा जम्बूद्वीपे जघन्येन चत्वारस्तीर्थकृतः चक्रवर्तिनो बलदेवा वासुदेवाश्च सदा भवन्ति । उत्कर्षेण चतुस्त्रिंशज्जिनाः त्रिंशच क्षितीशाः। धातकीखण्डे पुष्कराधे च द्विगुणाः ॥
१ इति विंशतिं द्विपञ्चाशतं च जिनगृहाणि गिरिशिरःसु संस्तुवीमः। इन्द्राणीराजधानीषु द्वात्रिंशतं षोडश वा वन्दे ॥२४॥ २ सोलसं च वंदे-शां. ॥ ३ नन्दीश्वरसमुद्रः-खं. ॥ ४ भरतैरवत०-मु.॥ ५ ०पानवान्-मु.॥ ६०त्रिभागत्रिभागच्छिन्ने०-खं.॥
Jain Education Intemos
For Private & Personal Use Only
Ww.jainelibrary.org

Page Navigation
1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658