Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 625
________________ तिर्यग्लोकादूर्ध्वं नवयोजनशतोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः । तत्र सौधर्मेशान - सनत्कुमार- माहेन्द्र-ब्रह्मलोक लान्तक-महाशुक्र -सहस्रारा ऽऽनत-प्राणता-ऽऽरणाऽच्युता द्वादश कल्पाः । तदुपरि नव ग्रैवेयकाः । तदुपरि विजय - वैजयन्त-जयन्ताविभूषितं | sपराजितानि विमानानि प्राक्क्रमात्, मध्ये सर्वार्थसिद्धम् । तदुपरि द्वादशसु योजनेषु पञ्चचत्वारिंशद्यो जनलक्षायामविष्कम्भा ईषत्प्राग्भारा नाम पृथ्वी, सा सिद्धशिला । ततोऽप्युपरि गव्यूतत्रयादूर्ध्वं चतुर्थगव्यूतपष्ठभागे आ लोकान्तात् सिद्धाः । योगशास्त्रम् ॥ ९३६ ॥ स्वोपज्ञ वृत्ति Bleeeeer Jain Education Inte श्लोकः १०५ ॥ ९३६ ॥ 5 लोक सौधर्मेशानी वृत्तौ चन्द्रमण्डलाकारौ । तत्र दक्षिणार्धे शक्र इन्द्रः, उत्तरार्धे ईशानः । सनत्कुमार- माहेन्द्रावप्येवम्, तत्र हे भावनायां दक्षिणाधें सनत्कुमार उत्तरार्धे माहेन्द्रः । तत ऊर्ध्वं लोकमध्यभागे लोकपुरुषकूर्परसमप्रदेशे ब्रह्मलोकः, तन्नामेन्द्रः, तदेकै तिर्यग्लोक स्वरूपम् 10 तत्र धरणितलात् समभागात् सौधर्मेशानौ यावत् सार्धा रज्जुः । सनत्कुमार- माहेन्द्रौ यावत् सार्धं रज्जुद्वयम् । सहस्रारं यावत् पञ्च रज्जवः । अच्युतं यावत् पट् रज्जवः । लोकान्तं यावत् सप्त रज्जवः । १ सार्धरज्जुः - हे. मु. ॥ २ ० महेन्द्रा० -खं. ॥ ३ " प्रान्ते सारस्वता-SS-दित्या ऽग्न्यरुण-गर्दतोयकाः । तुषिताऽव्याबाध| मरुद्- रिष्टा लोकान्तिकामराः ॥ ७६३ ॥” इति त्रिपटिशलाकापुरुषचरिते द्वितीये पर्वणि तृतीये सर्गे ॥ चतुर्थः प्रकाशः अत्रेदमवधेयम्-मु० विना योगशास्त्र वृत्तेः सर्वेष्वपि हस्तलिखितादर्शेषु 'सारस्वताऽऽदित्य - वह्नयरुण-गर्दतोय-तुषिताऽव्याबाध-रिष्टानाम्' इति अष्टानामेव लौकान्तिकानां नामोल्लेखो दृश्यते । यद्यपि 'नव लोकान्तिका:' इति प्रसिद्धिरस्ति, तथापि अष्टानामपि कथञ्चिदुल्लेखो दृश्यते । तथाहि " बंभम्मि य कप्पम्मि बोद्धव्वा कण्हराइणो मज्झे। लोगंतिया विमाणा अट्टसु वत्था असंखेजा ॥ " इति आचाराङ्गसूत्रे द्वितीये श्रुतस्कन्धे पञ्चदशेऽध्ययने सू० ७.१, पृ० २६७ । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658