Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
॥९२८॥
लकि
THEHREERIEHENERRIERTEREHENSIBIRTERRISHCH
मानुषोत्तरात् परतस्तु पुष्करबरद्वीपस्य द्वितीयमर्धम् । पुष्करद्वीपात् परतस्तत्परिक्षेपी द्वीपद्विगुणविस्तारः पुष्करोदः । समुद्रः। ततो वारुणिवरद्वीप-समुद्रौ, क्षीरवरद्वीप-समुद्रौ, घृतवरद्वीप-समुद्रौ, इक्षुवरद्वीप-समुद्रौ च भवतः।
चतुर्थः
प्रकाशः अष्टमो नन्दीश्वरद्वीपः, स च चतुरशीतिलक्षोपेतत्रिषष्टिकोट्यधिकयोजनकोटिशतप्रमाणवलयविष्कम्भो विविधविन्यासो
श्लोकः १०५ द्यानवान् देवलोकप्रतिस्पर्धी जिनेन्द्रपूजाव्यापृतदेवसंपाताभिरुचिरः स्वेच्छाविविधक्रियादेवसंभोगरम्यः । तत्र तस्य मध्यभागे ।
॥९२८॥ चतुसृषु दिक्षु चत्वारोऽञ्जनगिरयोऽञ्जनवर्णा बाह्यमेरुसमुच्छ्याः (८४०००), दशयोजनसहस्रातिरिक्तविस्तारा मृले, साहस्राः । ते च क्रमाद्देवरमण-नित्योद्योत-स्वयंप्रभ-रमणीयनामानः। तेषु जिनायतनानि योजनशतायामानि तदर्धविस्ताराणि द्विसप्ततियोजनोचानि। तत्र षोडशयोजनोच्चानि अष्टयोजनविस्ताराणि अष्टयोजनप्रवेशानि देवा-ऽसुर-नागसुपर्णाख्यामरनिवासानि तन्नामानि च चत्वारि द्वाराणि, तन्मध्ये मणिपीठिकाः षोडशयोजनायामविस्तारा अष्टयोजनोत्सेधाः, भावनाया
तिर्यग्लोकतदुपरि देवच्छन्दकाः साधिकार्यामोच्चाः, तेषु प्रत्येकमृषभा-वर्धमाना-वारिषेणा-चन्द्राननाभिख्यानां शाश्वतजिनप्रतिमानां
स्वरूपम् पर्यङ्कनिषण्णानां स्वपरिवारवृतानामष्टोत्तरं शतम् । प्रतिप्रतिमं च द्वे नागप्रतिमे यक्षप्रतिमे भूतप्रतिमे कुण्डधरमतिमे चामरधरप्रतिमे च भवतः, पृष्ठत छत्रधरप्रतिमैका। तानि च दाम-घण्टा-धूपटिका-ऽष्टमङ्गलक-तोरण-ध्वज-पुष्पचङ्गेरिका-पटल च्छत्रा
सनादिमन्ति तपनीयरुचिररजोवालुकाप्रैस्तृतानि षोडशपूर्णकलशादिभूषितानि आयातनमानमुखमण्डप-प्रेक्षामण्डपा-ऽक्षवाटक-मणिपीठिका-स्तूप-प्रतिमा-चैत्यवृक्षेन्द्रध्वज-पुष्करिणीक्रमरचनानि ।
१ वरद्वीपात्-मु.॥ २ ०पातातिरुचिर:-मु. खं॥ ३ ०च्छाया-मु.॥ ४ मोचकाः-मु.॥ ५ ०धूपघंटिका-हे. मु. विना ॥ ६ प्रमृष्टानि-शां.॥ ७ पिठिका०-संपू. खं.। ०पीठका०-शां.॥
Jain Education InteSu2
For Private & Personal use only
FAlww.jainelibrary.org

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658