Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 602
________________ ॥ ९९३ ॥ Jain Education Inte कालोदे द्विचत्वारिंशच्चन्द्राः सूर्याश्च । पुष्करार्धे द्विसप्ततिश्चन्द्राः सूर्याश्च । इत्येवं मनुष्यलोके द्वात्रिंशं चन्द्रशतं सूर्यशतं च भवति । अष्टाशीतिर्ग्रहाः, अष्टाविंशतिर्नक्षत्राणि, षट्षष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारकाकोटीकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । तत्र एकषष्टिभागीकृतस्य योजनस्य षट्पञ्चाशद्भागा आयामविष्कम्भाभ्यां चन्द्रविमानम्, अष्टचत्वा रिंशत् सूर्यविमानम्, ग्रहाणामर्धयोजनम्, नक्षत्राणां गव्यूतम्, आयुषा सर्वोत्कृष्टायास्ताराया अर्धक्रोशः, सर्वजघन्यायाः पञ्च धनुःशतानि, बाहल्यं तु सर्वेषामायामार्धेन । एते च पञ्चचत्वारिंशल्लक्षयोजनप्रमिते मनुष्यक्षेत्रे भवन्ति । चन्द्रादिविमान वाहनानि च पुरतः सिंहाः, दक्षिणतो गजाः, अपरतो वृषभाः, उत्तरतोऽश्वाः । ते चाभियोगिका | देवाश्चन्द्र-सूर्ययोः षोडश सहस्राणि ग्रहाणामष्टौ नक्षत्राणां चत्वारि, तारकाणां द्वे, स्वरसमवृत्तगतीनामपि चन्द्रादीनामाभियोग्यकर्मवशात्तत्रोपतिष्ठन्ते । मानुषोत्तरात् परतः पञ्चाशता योजन सहस्रैः परस्परमन्तरिताः सूर्यान्तरिता चन्द्राः चन्द्रान्तरिताः सूर्याः मनुष्यक्षेत्रीयचन्द्र-सूर्यप्रमाणादर्धप्रमाणा यथोत्तरं क्षेत्रपरिधिवृद्धया संख्यया वर्धमानाः शुभलेश्या ग्रह-नक्षत्र - तारापरिवारा घण्टाकारा असंख्येया आ स्वयंभूरमणाल्लक्षयोजनान्तरिताभिः पङ्क्तिभिस्तिष्ठन्ति । १ पुष्करवरार्धे - मु. ॥ २ द्वासप्तति० - मु. खं• ॥ ३ ० तिन०-खं. ॥ ० सप्ताधिकानि हे ॥ ६०काकोटीनामे०-खं. ॥ ७ पञ्चाशत्योजन० - शां० ॥ For Private & Personal Use Only ४ ० षष्टिः सह० मु० ॥ ५०सप्ततानि - संपू. खं. ॥ 10 ॥ ९९३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658