________________
॥ ९९३ ॥
Jain Education Inte
कालोदे द्विचत्वारिंशच्चन्द्राः सूर्याश्च । पुष्करार्धे द्विसप्ततिश्चन्द्राः सूर्याश्च । इत्येवं मनुष्यलोके द्वात्रिंशं चन्द्रशतं सूर्यशतं च भवति ।
अष्टाशीतिर्ग्रहाः, अष्टाविंशतिर्नक्षत्राणि, षट्षष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारकाकोटीकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । तत्र एकषष्टिभागीकृतस्य योजनस्य षट्पञ्चाशद्भागा आयामविष्कम्भाभ्यां चन्द्रविमानम्, अष्टचत्वा रिंशत् सूर्यविमानम्, ग्रहाणामर्धयोजनम्, नक्षत्राणां गव्यूतम्, आयुषा सर्वोत्कृष्टायास्ताराया अर्धक्रोशः, सर्वजघन्यायाः पञ्च धनुःशतानि, बाहल्यं तु सर्वेषामायामार्धेन । एते च पञ्चचत्वारिंशल्लक्षयोजनप्रमिते मनुष्यक्षेत्रे भवन्ति ।
चन्द्रादिविमान वाहनानि च पुरतः सिंहाः, दक्षिणतो गजाः, अपरतो वृषभाः, उत्तरतोऽश्वाः । ते चाभियोगिका | देवाश्चन्द्र-सूर्ययोः षोडश सहस्राणि ग्रहाणामष्टौ नक्षत्राणां चत्वारि, तारकाणां द्वे, स्वरसमवृत्तगतीनामपि चन्द्रादीनामाभियोग्यकर्मवशात्तत्रोपतिष्ठन्ते ।
मानुषोत्तरात् परतः पञ्चाशता योजन सहस्रैः परस्परमन्तरिताः सूर्यान्तरिता चन्द्राः चन्द्रान्तरिताः सूर्याः मनुष्यक्षेत्रीयचन्द्र-सूर्यप्रमाणादर्धप्रमाणा यथोत्तरं क्षेत्रपरिधिवृद्धया संख्यया वर्धमानाः शुभलेश्या ग्रह-नक्षत्र - तारापरिवारा घण्टाकारा असंख्येया आ स्वयंभूरमणाल्लक्षयोजनान्तरिताभिः पङ्क्तिभिस्तिष्ठन्ति ।
१ पुष्करवरार्धे - मु. ॥ २ द्वासप्तति० - मु. खं• ॥ ३ ० तिन०-खं. ॥ ० सप्ताधिकानि हे ॥ ६०काकोटीनामे०-खं. ॥ ७ पञ्चाशत्योजन० - शां० ॥
For Private & Personal Use Only
४ ० षष्टिः सह० मु० ॥ ५०सप्ततानि - संपू. खं. ॥
10
॥ ९९३ ॥
www.jainelibrary.org