________________
चतुर्थः प्रकाशः श्लोकः १०५ ॥ ९१४ ॥
॥ ९१४॥
मध्यलोके तु जम्बूद्वीप-लवणादयः शुभनामानो द्वीप-समुद्रा असङ्ख्याता द्विगुणद्विगुणविस्ताराः पूर्वपूर्वपरिक्षेपिणो स्वोपक्ष
है वलयाकृतयः। अन्त्यः स्वयंभूरमणः समुद्रः॥ वृत्तिविभूषितं ___जम्बूद्वीपमध्ये मेरुः काञ्चनस्थालमिव वृत्तो योजनसहस्रमधो धरणितलमवगाढः, नवनवतियोजनसहस्रोच्छ्रितः, दश योगशास्त्रम् योजनसहस्राणि सातिरेकनवत्यधिकानि कन्दे विस्तृतः, धरणितले दश योजनसहस्राणि विस्तृतः, उपरि योजनसंहस्रविस्तृतः
त्रिकाण्डः, त्रिलोकप्रविभक्तमूर्तिः, चतुर्भिर्वनैर्भद्रशाल-नन्दन सौमनस-पाण्डकैः परिवृतः। तत्र शुद्धपृथिव्युपल-वज्र-शर्कराबहुलं योजनसहस्रमेकं प्रथमं काण्डम् , द्वितीयं त्रिषष्टियोजनसहस्राणि रजत-जातरूपा-क-स्फटिकबहुलम् , तृतीयं षट्त्रिंशयोजन- सहस्राणि जाम्बूनदबहुलम् , वैडूर्यबहुलाऽस्य चूलिका चत्वारिंशयोजनानि उच्छ्रायेण, मूले द्वादश विष्कम्भेण, मध्येष्टी, उपरि चत्वारीति। मेरोर्मूले भूमौ वलयाकृति भद्रशालवनं । भद्रशालवनात् पञ्चभ्यो योजनशतेभ्य ऊवं पञ्चयोजनशतविस्तारं मेखलायां वलयाकृति नन्दनवनम् , ततः सार्धद्विषष्टियोजनसहस्रेभ्य ऊर्ध्व द्वितीयमेखलायां पश्चयोजनशतविस्तार वलयाकृति सौमनसं वनम् , ततोऽपि षट्त्रिंशद्योजनसहस्रेभ्य ऊर्ध्व तृतीयमेखलायां चतुर्नवत्यधिकचतुर्योजनशतविस्तार वलयाकृति मेरोः शिरसि पाण्डकवनम् ।
तत्र जम्बूद्वीपे सप्त वर्षाणि । 'तत्र दक्षिणतो भरतक्षेत्रम् , तदुत्तरतो हैमवतम् , ततोऽपि हरिवर्षम् , ततोऽपि विदेहाः, ततोऽपि रम्यकक्षेत्रम् , ततोऽपि हैरण्यवतम्, ततोऽप्यैरावतमिति । क्षेत्रविभागकारिणस्तु हिमवन्महाहिमवनिषधनीलरुक्मि
१ सहस्र-मु॥. २ त्रिषष्टियोज०-मु०॥ ३ मेरोर्मूलभूमौ-नु- Mnal use only
SSIGHEHEIGHEHEREIGNETBHERCISHCHEHEREHENSIKCAKCHEHERENCIES
लोकभावनायां लोकस्वरूपवर्णनम्
Jain Education in
| www.jainelibrary.org