Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 608
________________ भरतक्षेत्रमध्ये च पूर्वापरायत उभयतः समुद्रमवगाढो दक्षिणोत्तरार्धविभागकारी तमिस्रा-खण्डप्रपातागुहाद्वयोषशोभितः षड् योजनानि सक्रोशानि धरणितलमवगाढः पश्चाशयोजनविस्तृतः पञ्चविंशतियोजनोच्छ्रितो वैताढ्यपर्वतः। अत्र च दक्षिणोत्तरपार्श्वभ्यां भूमितो दशयोजनेभ्य ऊर्ध्व दशयोजनविस्तृते विद्याधरश्रेण्यौ। तत्र दक्षिणस्यां सजनपदानि पञ्चाशनगराणि उत्तरस्यां तु षष्टिः। विद्याधरश्रेणिभ्यामूर्ध्वमुभयतो दशयोजनान्ते व्यन्तरश्रेण्यौ, तयोर्व्यन्तरावासाः। व्यन्तरश्रेण्योपरि पञ्चसु योजनेषु नव कूटानि। वैताढ्यवक्तव्यता ऐरवतक्षेत्रेऽपि समाना वक्तव्या। जम्बूद्वीपस्य च प्राकारभूता वज्रमयी अष्टयोजनोच्छ्राया जगती, द्वादश योजनान्यस्या मूले विष्कम्भः, मध्येऽष्टौ । योजनानि, उपरि चत्वारि योजनानि, तदुपरि द्विगव्यूत्युच्छायो जालकटको विद्याधरक्रीडास्थानम्। तस्याप्युपरि पद्मवर*वेदिका देवभोगभूमिः। अस्याश्च जगत्याः पूर्वादिषु दिक्षु विजय-वैजयन्त-जयन्ता-ऽपराजिताख्यानि चत्वारि द्वाराणि, हिमवन्महाहिमवतोरन्तरे शब्दापाती नाम वृत्तवताठ्यपर्वतः। रुक्मि-शिखरिणोर्मध्ये विकटापाती। महाहिमवन्निषधयोरन्तरे । गन्धापाती। नील रुक्मिणोरन्तरे माल्यवान् । सर्वेऽपि योजनसहस्रोच्छ्रायाः पल्याकृतयः। तथा जम्बूद्वीपपरिक्षेपी तद्विगुणविस्तारो योजनसहस्रावगाढो मात्रया पश्चनवतियोजनसहस्राणि यावदुभयत उच्छयेण प्रवर्धमानजलो मध्ये दशसहस्रविस्तारे पोडशयोजनसहस्रोच्छ्यशिखः तदुपरि कालद्वयेऽपि गव्यूतद्वितयं यावत् ह्रास-वृद्धिमान् लवणोदः समुद्रः। तत्र मध्ये चतुर्दिशि योजनलक्षप्रमाणाः प्राक्क्रमात् वडवामुख-केयूप-यूपक ईश्वराख्याः साहस्रवज्रमयकुड्या १ ऐरावत०-मु०॥ २ दिशे-खं.। दिशं-मु.॥ ३ सहस्र०-मु. खं. ॥ EHSHISHEICHEHEREMEHEHEREHEREHEREMECHEHEREMEHEREMBHEHREE Jain Education Intem For Private & Personal Use Only SAww.jainelibrary.org

Loading...

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658