Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 610
________________ ९२१ ॥ खण्डे द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्ताः। एभिरेव नामभिर्जम्बूद्वीपकसमसङ्ख्याः , पूर्वार्धे चापरार्धे च चक्रारसंस्थिता निषधसमोच्छ्रायाः कालोद-लवणजलस्पर्शिनो वर्षधराः सेष्वाकारपर्वताः, अरविवरसंस्थिताश्च वर्षा इति । ___ धातकीखण्डपरिक्षेपी अष्टयोजनलक्षविष्कम्भः कालोदः समुद्रः । । कालोदपरिक्षेपी तद्विगुणविस्तारः पुष्करवरद्वीपः, तदर्धं यावन्मानुषं क्षेत्रम्। यश्च धातकीखण्डे मेर्वादीनां सेष्वाकार-2 पर्वतानां सङ्ख्याविषयनियमः स एव पुष्करा वेदितव्यः, धातकीखण्डक्षेत्रादिविभागतो द्विगुणक्षेत्रादिविभागश्च। धातकी-है। खण्ड-पुष्करार्धयोश्च क्षुद्रमेरवश्चत्वारोऽपि महामेरोः पञ्चदशभिर्योजनसहहीनोच्छ्रायाः (८५०००) षड्भिर्योजनशतैर्धरणितले हीनविष्कम्भाः। तेषां प्रथम काण्डं महामेरुतुल्यम् (१०००), द्वितीयं सप्तभिर्योजनसहस्रहीनम् (५६०००), ततीयमष्टाभिः (२८००)। भद्रशाल-नन्दनवने महामेरुवत् । सार्धपञ्चपञ्चाशयोजनसहस्रोपरि पञ्चयोजनशतविस्तृतं सौमनसम। ततोsटाविंशतियोजनसहस्रोपरि चतुर्णवत्यधिकचतुर्योजनशतविस्तृतं पाण्डकवनम्। उपरि चाधश्च विष्कम्भोऽवगाहश्च (१०००१००००-१००० ) तुल्यो महामेरुणा, चूलिका चेति । तदेवं मानुषं क्षेत्रमर्धतृतीया द्वीपाः, समुद्रद्वयम् , पञ्च मेरवः, पञ्चत्रिंशत् क्षेत्राणि, त्रिंशद्वर्षधरपर्वताः, पञ्च देवकुरवः, पञ्चोत्तराः कुरवः, शतं षष्टयधिकं विजयानामिति । ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी महानगरप्राकारवृत्तः पुष्करवरद्वीपार्धविनिविष्टः काञ्चनमयः सप्तदश योजनशतान्येकविंशान्युच्छ्रितः, चत्वारि योजनशतानि त्रिंशानि क्रोशं चाधो धरणितलमवगाढः, योजनसहस्रं द्वाविंश १ तदेव-खं. संपू.॥ ॥ ९२१॥ Jain Education Inte2 For Private & Personal Use Only 21 ww.jainelibrary.org

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658