Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 604
________________ ॥ ९१५ ।। Jain Education Inter seeeeeeeeeeeeeee aederedeliaSH शिखरिणो वर्षधरपर्वताः, ते च यथाक्रमं हेमा-ऽर्जुन- तपनीय बैडूर्य-रजत- तपनीयमया मणिविचित्रपार्श्वा मूलोपरि तुल्यविस्ताराः । तत्र पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्रायो हिमवान्, तद्विगुणो महाहिमवान्, ततोऽपि द्विगुणो निषधः, तत्समो नीलः, महाहिमवत्समो रुक्मी, हिमवत्समः शिखरी । तदुपरि पद्म- महापद्म-तिर्गिच्छि केसरि-महापुण्डरीक-पुण्डरीका हृदाः । योजनसहस्रायामस्तदर्द्धविस्तीर्णः प्रथमः, तद्विगुणद्विगुणायामविस्तारौ परौ, उत्तरे पुण्डरीकादयो दक्षिणतुल्याः । सर्वेष्वपि च १ हेमार्जुनरजतवैडूर्यरजततपनीयमया - खं. संपू. । “ हेमार्जुन तपनी यवैदूर्यरजतहेममयाः ३ । १२ । त एते हिमवदादयः पर्वता | हेमादिमया वेदितव्याः । मयट् प्रत्येकं परिसमाप्यते । यथाक्रमं हिमवदादयः सम्बध्यन्ते । हेममयो हिमवान् चीनपट्टवर्णः । अर्जुनमयो महाहिमवान् शुक्लः । तपनीयमयो निषधः तरुणादित्यवर्णः । वैदूर्यमयो नीलः मयूरग्रीवाभः । रजतभयो रुक्मी शुक्लः । | हेममयः शिखरी चीनपट्टवर्ण इति ।" इति दिगम्बराचार्येण अकलङ्कदेवेन विरचिते तत्त्वार्थराजवार्तिके । ३ । १२ ॥ रुक्म " जोयणसय मुव्विद्धा कणगमया सिहरिचुल्लहिमवंता । रुप्पिमहाहिमवंता दुसउच्चा रुष्पकणगमया ॥ १३० ॥ चतारि जोअण|सए उब्विद्धा निसहनीलवंता वि । सिहो तवणिज्जमओ वेरुलिओ नीलवंतगिरी ॥ १३१ ॥ " इति जिनभद्रगणिक्षमाश्रमणविरचिते बृहत् क्षेत्रसमासे । “कनकमयौ पीतसुवर्णमयौ शिखरि क्षुल्लहिमवन्तौ रुक्मिमहाहिमवन्तौ | कनकमयौ । रुक्मं श्वेतं कनकम्, पीतं सुवर्णम्, तन्मयौ । किमुक्तं भवति । श्वेतसुवर्णमयो रुक्मी, पीतसुवर्णमयो महाहिमवान् । केचित् पुनः रुक्मिपर्वतं रुक्ममयमिच्छन्ति, अपरे महाहिमवन्तं सर्वरत्नमयम् । ...... निषधस्तपनीयमयः | आरक्तच्छाय सुवर्णमयः । नीलवन्नामा च गिरिर्वैडूर्यरत्नमयः " - इति मलयगिरिसूरिविरचितायां बृहत्क्षेत्र समासवृत्तौ ॥ २ तिंगिच्छि० - शां. संपू. । तिगिच्छि०-मु. ॥ For Private & Personal Use Only 5 10 ॥ ९१५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658