Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 600
________________ ॥ ९११ ॥ Jain Education Interna तत्र रुचकादध उपरि च नव नव योजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः, तिर्यग्लोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्त पृथिव्य उक्तरूपाः । तत्र रत्नप्रभायां पृथिव्यामशीतिसहस्राधिकयोजनलक्षबाहल्यायामुपर्यधश्च योजनसहस्रं मुक्त्वा मध्येऽष्टसप्ततिसहस्राधिके योजनलक्षे भवनपतीनां भवनानि । ते चासुर-नागविद्युत्-सुपर्णाऽग्नि-वात- स्तनितोदधि - द्वीप - दिक्कुमाराः । ते च चूडामणि- फणि-वज्र - गरुड - घटा-ऽश्व-वर्धमान-मकर-सिंह- हस्ति| चिह्नाः । तत्र भवनपतयो दक्षिणोत्तरदिग्व्यवस्थिताः । तत्रासुरकुमाराणां द्वाविन्द्रौ चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरसह । सुपर्णकुमाराणां वेणुदेवो वेणुदारी च। अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जन । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलमभश्च । द्वीप - कुमाराणां पूर्णो वशिष्ठश्च । दिक्कुमाराणाममितो मितवाहनश्च । अस्यामेव रत्नप्रभायामुपरितनयोजनसहस्रस्याध उपरि च योजनशतं मुक्त्वा मध्येऽष्टासु योजनशतेष्वष्टविधानां पिशाच-भूत-यक्ष-राक्षस - किन्नर - किम्पुरुष- महोरग- गन्धर्वाणां कदम्बवृक्ष- मुलसवृक्ष-वटवृक्ष-खट्टाङ्ग-शोकवृक्ष- चम्पकवृक्ष- नागवृक्ष-तुम्बरुवृक्षचिह्नानां तिर्यग्लोकवासिनां व्यन्तराणां नगराणि । तेष्वपि दक्षिणोत्तर दिग्व्यवस्थितेषु द्वौ द्वाविन्द्रौ । तत्र पिशाचानामिन्द्रौ कालो महाकालव । भूतानां सुरूपः प्रतिरूपश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । किन्नराणां किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्च । | महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिर्गीतयशाश्च । १ ०दाली च खं । ०दालिश्च मु.। “वेणुदारी च” इति तत्त्वार्थभाष्ये ४ | ६ ॥ २ तुम्बुरवृक्ष० - शां. संपू. हे. ॥ ३ ०र्गीतरसाश्च - संपू. ॥ For Private & Personal Use Only alalalalalalaaaaaaaaaaaan 5 10 ॥ ९११ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658