________________
॥ ९११ ॥
Jain Education Interna
तत्र रुचकादध उपरि च नव नव योजनशतानि तिर्यग्लोक इत्युत्सेधेऽष्टादशयोजनशतप्रमाणः, तिर्यग्लोकादधो नवयोजनशतोनसप्तरज्जुप्रमाणोऽधोलोकः । तत्र सप्त पृथिव्य उक्तरूपाः । तत्र रत्नप्रभायां पृथिव्यामशीतिसहस्राधिकयोजनलक्षबाहल्यायामुपर्यधश्च योजनसहस्रं मुक्त्वा मध्येऽष्टसप्ततिसहस्राधिके योजनलक्षे भवनपतीनां भवनानि । ते चासुर-नागविद्युत्-सुपर्णाऽग्नि-वात- स्तनितोदधि - द्वीप - दिक्कुमाराः । ते च चूडामणि- फणि-वज्र - गरुड - घटा-ऽश्व-वर्धमान-मकर-सिंह- हस्ति| चिह्नाः । तत्र भवनपतयो दक्षिणोत्तरदिग्व्यवस्थिताः । तत्रासुरकुमाराणां द्वाविन्द्रौ चमरो बलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरसह । सुपर्णकुमाराणां वेणुदेवो वेणुदारी च। अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जन । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलमभश्च । द्वीप - कुमाराणां पूर्णो वशिष्ठश्च । दिक्कुमाराणाममितो मितवाहनश्च । अस्यामेव रत्नप्रभायामुपरितनयोजनसहस्रस्याध उपरि च योजनशतं मुक्त्वा मध्येऽष्टासु योजनशतेष्वष्टविधानां पिशाच-भूत-यक्ष-राक्षस - किन्नर - किम्पुरुष- महोरग- गन्धर्वाणां कदम्बवृक्ष- मुलसवृक्ष-वटवृक्ष-खट्टाङ्ग-शोकवृक्ष- चम्पकवृक्ष- नागवृक्ष-तुम्बरुवृक्षचिह्नानां तिर्यग्लोकवासिनां व्यन्तराणां नगराणि । तेष्वपि दक्षिणोत्तर दिग्व्यवस्थितेषु द्वौ द्वाविन्द्रौ । तत्र पिशाचानामिन्द्रौ कालो महाकालव । भूतानां सुरूपः प्रतिरूपश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । किन्नराणां किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्च । | महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिर्गीतयशाश्च ।
१ ०दाली च खं । ०दालिश्च मु.। “वेणुदारी च” इति तत्त्वार्थभाष्ये ४ | ६ ॥ २ तुम्बुरवृक्ष० - शां. संपू. हे. ॥ ३ ०र्गीतरसाश्च - संपू. ॥
For Private & Personal Use Only
alalalalalalaaaaaaaaaaaan
5
10
॥ ९११ ॥
ainelibrary.org