________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः १०५
॥९१०॥
लोक
BISTRIBROTEIGHHETHERSHERCHOIROMCHHORIGHEHICHCHHO
पुनर्लोकस्वरूपमाह--
वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिमः।
अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः ॥ १०५॥ अधस्तादधोभागे वेत्रासनमधस्ताद् विस्तीर्णमुपर्युपरिसङ्कोचवत् तत्समस्तदाकारः, मध्यतो मध्ये झल्लरी वाद्यविशेषस्तसदृशः, अग्रे मध्यलोकादुपरि मुरज ऊर्ध्वमधश्च संकुचितो मध्यभागे विस्तृतो वाद्यविशेषस्तत्सदृशः। एवमधोमध्योद्धेषु आकारत्रययोगी लोकः। यदाहुः--
" तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् ।
स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥ १॥" [प्रशमरतौ २११ ] ___ इह चाधस्तिर्यगूर्ध्वलोका रुचकापेक्षया। रुचकश्च मेरुमध्ये गोस्तनाकारचतुराकाशप्रदेशप्रमाणोऽधः, तादृश एवोर्ध्वम् , एवमष्टप्रदेशः, यदाहुः--
“ अट्ठपएसो रुअगो तिरियलोगस्स मज्झयारम्मि ।
एस पवो दिसाणं एसेव भवे अणुदिसाणं ॥ १॥" [ आचाराङ्गनियुक्तौ गा० ४२] । १ अष्टप्रदेशो रुचकस्तिर्यग्लोकस्य मध्ये। एष प्रभवो दिशाम् एष एव भवेदनुविशाम्॥ २ तिरियलो०-९० ।।
TECHCHHEMERCISTRICISISNEHEIGHCISHCHEREIGRICHEICHERE
भावनायां लोकस्वरूपवर्णनम्
Jain Education Inten
For Private & Personal use only
ww.jainelibrary.org