SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥ ८९२ ॥ Jain Education Inte aaaa Bleededaeecele सुष्ठु तीर्थकापेक्षया प्राधान्येन, आ विधि प्रतिषेधमर्यादया ख्यातः कथितः खलु निश्चयेन धर्मो वक्ष्यमाणलक्षणः, अयं विपश्चितां चेतसि विवर्त्तमानः । कैः ? जिनोत्तमैरवधिजिनादिभ्यः प्रकृष्टैः केवलिभिः । कथम्भूतैः ? भगवद्भिर्व्याख्यात| स्वरूपैरर्हद्भिरिति यावत् । स्वाख्याततामेवाह--यं धर्म समालम्बमानो दुर्गतिपातभयादाश्रयन, जन्तुरिति गम्यते, न मज्जेद् न ब्रुडेद् भवसमुद्रे ॥ ९२ ॥ स्वाख्यातं धर्ममाह- संयमः सूनृतं शौचं ब्रह्माऽ किञ्चनता तपः । क्षान्तिर्मार्दवमृजुता मुक्तिश्च दशधा स तु ॥ ९३ ॥ स तु धर्मो दशधा दशप्रकारः । तत्र संयमः प्राणिदया, स सप्तदशविधः । तंत्र पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पश्चेन्द्रियाणां मनो-वाक् कायकर्मभिः करण- कारणानुमतिभिश्च संरम्भ- समारम्भा - ऽऽरम्भवर्जनमिति नवधा । अजीवरूपाण्यपि पुस्तकादीनि दुःषमादोषात् प्रज्ञाबलहीन शिष्यानुग्रहार्थं यतनया प्रतिलेखना - प्रमार्जनापूर्वं धारयतोऽजीवसंयमः । तथा प्रेक्ष्य चक्षुषा स्थण्डिलं बीज-जन्तु - हरितादिरहितं तत्र शयनासनादीनि कुर्वीतेति प्रेक्षासंयमः । गृहस्थान् सावद्यव्यापारप्रसक्तानव्यापारणेनोपेक्षमाणस्योपेक्षासंयमः । प्रेक्षितेऽपि स्थण्डिले रजोहरणादिना प्रमृज्य शयनासनादीन् कुर्वतः स्थण्डिला१ कुतीर्थिका० - मु. ॥ २ तथा पृथि० - शां. ॥ दृश्यतां तत्त्वार्थभाष्ये [ ९/६ ] सिद्धसेनगणिविरचितायां तद्वृत्तौ पृ० १९७-१९८ ॥ ३ शयनादीनि - शां. ॥। ४ शयनादीन् खं. ॥ For Private & Personal Use Only च adaaek चतुर्थः प्रकाशः श्लोकः ९३ ॥ ८९२ ॥ 5 निर्जरा भावना वर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy