________________
८१३॥
HENGHerHHHORTCHCHEHRTCHRISHCHISHEHCHEHCHEHENGICHE
दस्थण्डिलमस्थण्डिलाच्च स्थण्डिलं संक्रामतः सचित्ता-ऽचित्त-मिश्रासु पृथिवीषु रजोऽवगुण्ठितौ चरणौ प्रमाय गच्छतो वा । प्रमार्जनासंयमः। भक्त पानादिकमनेषणीयं वस्त्र पात्रादिकं चानुपकारकं संसक्तं वा निर्जन्तुके स्थण्डिले परिष्ठापयतः परिष्ठापनासंयमः। मनसोऽभिद्रोहा-ऽभिमानेादिभ्यो निवृत्तिधर्मध्यानादिषु च प्रवृत्तिर्मनःसंयमः। वाचो हिंस्र-परुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वासंयमः। कायस्य धावन-वल्गनादिभ्यो निवृत्तिः शुभक्रियासु च प्रवृत्तिः कायसंयम इति । एवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूपः संयमः, यदाहुः--
" पुढविदगअगणिमारुययणस्सइबितिचउपणिंदिअज्जीवे ।
पेहोपेहपमज्जणपरिट्ठवणमणोबइकाए ॥ १॥" [ आवश्यकसं० ] तथा "ऊनण् परिहाणे" [धा० पा० १०॥३२० ], अस्य धातोः सुष्टु उन्यतेऽप्रियपरिहारेण प्रियमात्राश्रयणाद् मितीक्रियते इति सून् , सून् च तदृतं च सूनृतं प्रियं सत्यं च । तच्च पारुष्य-पैशुन्या-ऽसभ्यत्व-चापला-ऽऽविलत्वविरलत्व-संभ्रान्तत्व-सन्दिग्धत्व-ग्राम्यत्व-रागद्वेषयुक्तत्वो-पधा-ऽवद्य-विकत्थनपरिहारेण माधुयौदार्य-स्फुटत्वा-ऽऽभिजात्य
१ परुषादिवचोभ्यो-मु.॥ २ संयमादिदशविधधर्मस्वरूपं तत्त्वार्थभाष्ये [९।६] सिद्धसेनगणिविरचितायां तद्वत्ती च[पृ० १८९-२०८ ] विस्तरेण विलोकनीयम् ॥ ३ पृथिव्युदकाग्निमारुतवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाजीवे। प्रेक्षोपेक्षाप्रमार्जन-10 परिष्ठापनमनोवचःकाये ॥ ४ ०पणिदिअजीवे-शां. । पणिदियअज्जीवो-खं.। पणिदिअजीवा-इति आवश्यकसूत्रस्य संग्रहणीगाथायाम् ॥ ५ ०बई०-संपू. विना॥ ६ आवश्यकसूत्रे प्रतिक्रमणाध्ययने 'सत्तरसविहे असंजमे' इति सूत्रस्य संग्रहणीगाथा | इयम् ।
॥८२३॥
Jain Education Intera
For Private & Personal Use Only
75
ainelibrary.org