________________
स्वोपन
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः ९३ ॥ ८९४॥
HEENETBHEMORRHEMEICHERCISHERSXEHRIRIKCHRIKRISHCHIKERSIS
पदार्थाभिव्याहारा-ऽर्हद्वचनानुसारा-ऽर्थ्यत्वा-र्थिजनभावग्राहकत्व-देशकालोपपन्नत्व-यत-मित-हितत्वैर्युक्तं याचन-प्रच्छनप्रश्नव्याकरणादिरूपमिति मृषावादपरिहाररूपं सूनृतम् ।
शौचं संयम प्रति निरुपलेपता। सा चादत्तादानपरिहाररूपा। लोभातॊ हि परधनं जिघृक्षन् संयमं मलिनयति । लौकिका अप्याहु:
“सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थेषु शुचिः स शुचिर्न मृद्वारिशुचिः शुचिः॥१॥" [ मनुस्मृतौ ५।१०६] ___ अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुमं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते, इत्यदत्तादानपरिहाररूपं शौचम् ।
नवब्रह्मचर्यगुप्तिसनाथमुपस्थसंयमो ब्रह्म 'भीमो भीमसेनः' इति न्यायाद् ब्रह्मचर्यम् । बृहत्त्वाद् ब्रह्मात्मा, तत्र चरणं ब्रह्मचर्यमात्मारामतेत्यर्थः। तदर्थ गुरुकुलसेवनमपि ब्रह्मचर्यमित्यब्रह्मनिवृत्तिरूपं ब्रह्मचर्यम्।
१०सारार्थत्वा०-संपू. विना । सारार्थित्वा०-शां. ॥ "सत्यर्थे भवं वचः सत्यम् । तदननृतम् अपरुषम् अपिशुनम् अनसभ्यम् अचपलम् अनाविलम् अविरलम् अभ्रान्तम् मधुरम् अभिजातम् असन्दिग्धम् स्फुटम् औदार्ययुक्तम् अग्राम्यपदार्थाभिव्याहारम असीभरम् अरागद्वेषयुक्तम् सूत्रमार्गानुसारप्रवृत्तार्थम् अयम् अर्थिजनभावग्रहणसमर्थम् आत्मपरार्थानुग्राहकं निरुपधं देश-कालोप
पन्नम् अनवद्यम् अर्हच्छासनप्रशस्तं यतं मितं याचनप्रच्छनं प्रश्नव्याकरणमिति सत्यधर्मः" इति तत्त्वार्थभाष्ये [९।६]। विशेषाजर्थिभिः सिद्धसेनगणिविरचिता तत्त्वार्थभाष्यटीका विलोकनीया पृ० १९६-१९७॥ २ वाचन०-मु.॥ ३ ब्रह्मगुप्ति-मु.॥
धर्मस्वाख्यातताभावनायां दशविधयतिधर्मवर्णनम्
Jain Education Inter
2ww.jainelibrary.org