SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ ।। ८९५ ॥ Jain Education Interna नास्य किञ्चनं द्रव्यमस्तीत्यकिञ्चनः, तस्य भावोऽकिञ्चनता । उपलक्षणं चैतत् तेन शरीर-धर्मोपकरणादिष्वपि निर्ममत्वमकिञ्चनत्वम् । शरीरमपि धारयन्तो मुनयो निर्ममत्वात् तत्परिग्रहरहिता भोजनादिकमपि संयमयात्रार्थं शकटाक्षलेप नवत् कुर्वन्ति, न मूर्च्छया । उपकरणमपि च रजोहरणादिकं संयमरक्षार्थं वस्त्र पात्रादिकं तु संयमशरीर परित्राणार्थं धारयन्ति, न पुनर्लोभादिना इति निष्परिग्रहा एव । इति परिग्रहपरिहाररूपाऽकिञ्चनता । तप उक्त निर्वचनम्, उक्तस्य संयमादेर्वक्ष्यमाणस्य च क्षान्त्यादेः संवर- हेतोर्धर्मस्य मध्ये पठितम्, संवर- निर्जराहेतुत्वात् तच्च द्वादशप्रकारं पूर्वमुक्तम् । प्रकीर्णकं चेदमनेकविधम्, तद्यथा - यवमध्यं वज्रमध्यं च चान्द्रायणं कनक- रत्न- मुक्तावल्यस्तिस्रः सिंहविक्रीडिते द्वे, सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः, सर्वतोभद्रम्, भद्रोत्तरम्, आचाम्लवर्धमानमित्येवमादि । तथा द्वादश भिक्षुप्रतिमा मासिक्याद्या आ सप्तमासिक्याः सप्त सप्तरात्रिक्यस्तिस्रः, अहोरात्रिकी, एकरात्रिकी च । क्षान्तिः क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सा च क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात्, क्रोधदोषचिन्तनात्, बालस्वभाव चिन्तनात् स्वकृतकर्मफलाभ्यागमचिन्तनात्, क्षमागुणानुप्रेक्षणाच्च । , तत्र येन दोषेण मामाक्रोशति परः स दोषो मयि यद्यस्ति तदस्य सद्भूतमर्थ प्रकाशयतः कोऽपराध: ? । अथ नास्ति, तर्हि मृषाऽसौ वदतीति भावाभावचिन्तनात् क्षमितव्यमेव, यदाह- " आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ॥ १ ॥ "1 १ किञ्चनद्रव्य० - मु. ॥ २ ०दिक व संयम० - मु. । ३ भावविचिन्तनात् - मु. ॥ [ ] 10 ।। ८९५ ॥ ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy