________________
5
SHEHICHCHECERECEREMEHEREHEREHEHEREHCHEHEREHEREHREK
तथैव पूर्वसम्बद्धं सर्वकर्म शरीरिणाम् । तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ॥ ४॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ५॥ चिरार्जितानि भूयांसि प्रबलान्यपि तत्क्षणात । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः॥६॥ यथैवोपचितो दोषः शोषमायाति लङ्घनात् । तथैव तपसा कर्म क्षीयते पूर्वसञ्चितम् ॥ ७॥ यथा वा मेघसङ्घाताः प्रचण्डपवनैर्हताः। इतस्ततो विशीर्यन्ते कर्माणि तपसा तथा ॥ ८ ॥ प्रतिक्षणं प्रेभवन्त्यावपि संवर-निर्जरे। प्रकृष्येते यदा मोक्षं प्रसुवाते तदा ध्रुवम् ॥ ९ ॥ निर्जरां निर्जरां कुर्वस्तपोभिर्द्विविधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमामोति शुद्धधीः ॥ १० ॥
एवं तपोभिरभितः परिचीयमाना स्थानिर्जरा सकलकर्मविघातहेतुः । सेतुर्भवोदधिसमुत्तरणे ममत्वव्याघातकारणमतः खलु भावयेत् ताम् ॥ ११ ॥
॥निर्जराभावना ९॥ ९१॥ अथ धर्मखाख्यातताभावना
स्वाख्यातः खलु धर्मोऽयं भगवद्भिर्जिनोत्तमैः ।
यं समालम्बमानो हि न मज्जेद् भवसागरे ॥ ९२ ॥ १ सम्भवन्त्यावपि-मु.॥
HEHEREHEEEEEEEEEEEEEEEEEEEEEEEHEREHCHEEN
O
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org