SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ८९० ॥ Jain Education Int अथ तपसो निर्जराहेतुत्वं प्रकटयन्नाह- aaaaaa दीप्यमाने तपोवा चाभ्यन्तरेऽपि च । यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥ ९१ ॥ तप एव बहिः पापवनदाहकत्वात् तपोवह्निः, तस्मिन् दीप्यमाने मबलीभूते । किंविशिष्टे ? बाह्येऽनशनादौ, आभ्यन्तरे प्रायश्चित्तादौ सति । यमी संयमवान् जरति भस्मसात् करोति । अन्तर्भूतण्यर्थत्वात् सकर्मकता । कर्माणि ज्ञानावरणीयादीनि दुर्जराण्यपि दुःखक्षय्याण्यपि । निर्जराहेतुत्वं तपस उपलक्षणम्, संवरहेतुत्वादप्यस्य यदाह वाचकमुख्य: - " तपसा निर्जरा च " [ तत्त्वार्थ० ९१४], तपसा निर्जरा संवरथ भवतीत्यर्थः । तपश्च संवरत्वादभिनवकर्मोपचयप्रतिषेधकम्, निर्जरण| फलत्वाच्चिरन्तनकर्मनिर्जरकम्, तथा च निर्वाणप्रापकमिति । अत्रान्तरश्लोकाः— यथा हि पिहितद्वारमुपायैः सर्वतः सरः । नवैर्नवैर्जलापूरैः पूर्यते नैव सर्वथा ॥ १ ॥ तथैवावरोधेन कर्मद्रव्यै नवैर्नवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥ २ ॥ यथैव सरसस्तोयं संशुष्यति पुरा चितम् । दिवाकरकरालातपातसन्तापितं म्रुहुः ।। ३ ।। १ ०क्षय्यान्यपि खं. ॥ २ दिवाकरकरा एवं अलातानि तेषां पातेन सन्तापितमित्यर्थः ॥ For Private & Personal Use Only dailadaaaaaaaaaaaaaaaa चतुर्थः प्रकाशः श्लोकः ९१ ॥ ८९० ॥ 5 निर्जरा भावना वर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy