SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ॥ ८८९॥ BHISHCHOICHERCHOICHCHHUCHCHEHEHEREHEHEHEREHENSHEHERE प्वभ्युत्थाना-ऽभिगमना-ऽञ्जलिकरणादिरुपचारविनयः, परोक्षेष्वपि काय-वाग्-मनोभिरजलिक्रिया-गुणसंकीर्तना-ऽनुस्मरणादिरुपचारविनयः। | * अथ व्युत्सर्गः । व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः। स द्विविधः-बाह्य आभ्यन्तरश्च। तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्य, अनेषणीयस्य संसक्तस्य वाऽन्न-पानादेर्वा त्यागः। आभ्यन्तरः कषायाणाम् , मृत्युकाले शरीरस्य च त्यागः । ननु व्युत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र वचनेन ? सत्यम् , सोऽतिचारविशुद्धयर्थ उक्तः, अयं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् । अथ शुभध्यानम् । शुभमार्त-रौद्रविवेकेन शुभरूपं धर्म्य-शुक्लरूपं ध्यानं शुभध्यानम् । अत्रात-रौद्रध्याने उक्तपूर्वे, धयं शुक्लं च शुभध्याने वक्ष्येते। इत्यनेन प्रकारेण पोढाऽऽभ्यन्तरं तपः। इदं चाभ्यन्तरस्य कर्मणस्तापकत्वात् , अभ्यन्तरैरेवान्तर्मुखैभगवद्भिायमानत्वाच्चाभ्यन्तरम् । ध्यानस्य सर्वेषां तपसामुपरि पाठो मोक्षसाधनेष्वस्य प्राधान्यख्यापनार्थः, यदाह "संवर-विणिज्जराओ मोक्खस्स पहो तवो पहो तासि । ज्झाणं च पहाणंगं तवस्स तो मोक्खहेऊ तं ॥ १॥" [ध्यानशतके गा० ९६ ] ॥९० ॥ ** एतदन्तर्गतपाठस्थाने हे. मध्ये ईदृशः पाठः-'अथ व्युत्सर्गः। व्युत्सर्जनीयानेषणीयादिषु त्यक्तेषु गमनागमन-0 सावद्यस्वधनदर्शन-नौसन्तरणो-चार-प्रश्रवणेषु च विशिष्टः प्रणिधानपूर्वकः कायवाङ्मनोव्यापारत्यागः'-हे. ॥ २ धर्म्यशुक्लध्यान १ शुभध्यानम्-शां.॥ ३ संघर-विनिर्जराः मोक्षस्य पन्थाः तपः पन्थास्तासाम्। ध्यानं च प्रधानाङ्गं तपसस्ततो मोक्षहेतुस्तत् ।। WHEREARSHISHEHEHEREKEHEIGHEIRECHEHEHESHCHEIGHCHEMEHERE ९॥ Jain Education Intel For Private & Personal Use Only Elww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy