SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ८८८ ॥ Jain Education Inter lelelelelels | उप समीपेऽधीयतेऽस्मादित्युपाध्यायः । स्थविरो वृद्धः । स श्रुत- पर्याय - वयो भेदात् त्रिविधः । श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थ विरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि वयःस्थविरः सप्तत्यादिवर्षजीवितः । विकृष्टं दशमादि किञ्चिन्न्यूनषण्मासान्तं तपः कुर्वस्तपस्वी । अचिरप्रव्रजितः शिक्षाहः शैक्षः । रोगादिक्लिष्टशरीरो ग्लानः । साधर्मिकाः समानधर्माणो द्वादशविधसम्भोगवन्तश्च । बहूनां गच्छानामेकजातीयानां समूहः कुलं चान्द्रादि । गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः । कुल| समुदायो गणः कोटिकादिः । साधु-साध्वी श्रावक-श्राविकासमुदायः सङ्घः । एषामाचार्यादीनामन्न-पान-वस्त्र- पात्र -प्रतिश्रयपीठ- फलक-संस्तार कादिभिर्धर्मसाधनैरुपग्रहः शुश्रूषा भैषजक्रिया कान्ताररोगोपसर्गेषु परिपालनम् एवमादि वैयापृत्यम् । अथ स्वाध्यायः । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्ययनं स्वाध्यायः । स पञ्चविधः - वाचनम्, प्रच्छनम्, अनुप्रेक्षा, आम्नायः, धर्मोपदेशश्चेति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः सन्देहच्छेदाय निश्चितबलाधानाय वा परानुयोगः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । आम्नायो घोषविशुद्धं परिवर्तनम् गुणनम्, रूपादानमिति यावत् । धर्मोपदेशोऽर्थोपदेशो व्याख्यानमनुयोगो वर्णनमिति यावत् । अथ विनयः। विनीयते क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः । स चतुर्धा ज्ञान-दर्शन- चारित्रोपचारभेदात् । तत्र सबहुमानं ज्ञानग्रहणा - Sभ्यास - स्मरणादिज्ञान विनयः । सामायिकादौ लोकबिन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशितपदार्थान्यथात्वासम्भवात् तत्त्वार्थश्रद्धानिः शङ्कितत्वादिना दर्शनविनयः । चारित्रवतश्चारित्रे समाहितचित्तता चारित्रविनयः, प्रत्यक्षेष्वाचार्यादि१ चन्द्रादि - संपू. मु. ॥ २ फलक- शय्या संस्तारका० शां० ॥ ३ वैयावृत्यम् - हे. । वैयावृत्त्यम्-मु.॥ For Private & Personal Use Only adddd8! चतुर्थः प्रकाश: श्लोकः ९० 11 666 11 5 निर्जरा भावनायामाभ्यन्तर तपः स्वरूपम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy