________________
11 249 11
Jain Education Inter
उस्सग्गेण वि सुज्झइ अइयारो कोइ कोइ उ तवेणं ।
तेण वि अमुज्झमाणे छेर्यावसेसा बिसोर्हिति ॥ ९ ॥" [ आवश्यकनिर्युक्तौ गाथाः १४३४-१४४२ ] प्रमाददोषव्युदास- भावप्रसाद -नैः शल्या ऽनवस्थाव्यावृत्ति मर्यादाअत्याग-संयमदाढर्या -ऽऽराधनादि प्रायश्चित्तफलम् ।
अथ वैयत्यम् । व्यापृतो व्यापारप्रवृत्तः प्रवचनोदितक्रियानुष्ठानपरः, तस्य भावः कर्म वा वैयावृत्यम् । व्याधि- परीषह| मिथ्यात्वाद्युपनिपाते तत्प्रतीकारो वाह्यद्रव्यासंभवे स्वकायेन तदानुकूल्यानुष्ठानं च । तच्चाचार्योपाध्याय-स्थविर-तपस्वि-शैक्षग्लान-साधर्मिक-कुल- गण - सङ्घलक्षण विषयभेदेन दशधा । तत्र स्वयमाचरति परांचाचारयति, आचर्यते सेव्यत इति वाऽऽचार्यः । स पञ्चधा - प्रव्राजकाचार्य:, दिगाचार्य:, उद्देशाचार्यः, समुद्देशानुज्ञाचार्यः, आम्नायार्थवाचकाचार्य इति । तत्र सामायिक| व्रतादेरारोपयिता प्रव्राजकाचार्यः । सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्यः । प्रथमत एव श्रुतमुद्दिशति यः स उद्देशाचार्यः । | उद्देष्टृगुर्वभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स समुद्देशानुज्ञाचार्यः । आम्नायमुत्सर्गा - ऽपवादलक्षणमर्थं वक्ति यः स प्रवचनार्थकथने नानुग्राहकोऽक्षनिषद्याद्यनुज्ञायी आम्नायार्थवाचकः । आचारगोचरविनयं स्वाध्यायं चाचार्याील्लब्धानुज्ञाः साधव
१०माणं- मु. ॥ २ विसोहंति - खं. ॥ ३ मर्यादात्याग० - संपू० विना ॥ ४ वैयावृत्यम्-हे. ॥ 'वैयानृत्यम्-मु. ॥ ५ व्यावृतो हे । व्यावृत्तो- मु. ॥ दृश्यतां तत्त्वार्थभाष्ये [ ९।२४ ] सिद्धसेनगणिविरचितायां तद्वृत्तौ च पृ० २५६ ॥ ६ वैयावृत्यम् - हे । वैयावृत्त्यम् - मु. ॥ तत्वार्थभाष्ये [९।७] सिद्धसेनगणिविरचितायां तद्वृत्तौ च पृ० २०८ ॥ ८ उद्देशकाचार्य:- मु. ॥ ९ समुद्देष्टृ ०-खं. ॥
७
यतां
For Private & Personal Use Only
5
10
॥ ८८७ ॥
www.jainelibrary.org