Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 15
________________ हत्तिः। इह मृत्पिण्डः कर्ता। योऽयं वृत्तसंस्थानरूपः स्वकीयो मृत्पिण्डाकारः, शक्तिश्च या काचिदात्माया, एतदुभयलक्षणो यः पर्यायविशेषास्तस्य यो विलयो विनाशस्तत्समकालमेवासावुत्पद्यते मृत्पिण्डः । केन ? इत्याह-पृथुबुनोदरादिको यः कुम्भाकारः, तच्छक्तिश्च या 11८१३|| जलाहरणादिविषया, एतदुभयलक्षणो यः पर्यायस्तेनोत्पद्यते । रूप-रस-गन्ध-स्पर्शरूपतया मृद्रव्यरूपतया चासौ मृत्पिण्डो न जायते, नापि व्येति विनश्यति । ततस्तद्रूपतया नित्योऽयमुच्यते, तेन रूपेण तस्य सदैवावस्थितत्वात् । तदेवं मृत्पिण्डो निजाकारस्वशक्तिरूपतया विनश्यति, घटाकार-तच्छक्तिरूपतयोत्पद्यते, रूपादिभावेन मृद्रव्यरूपतया चावतिष्ठते, इत्युत्पाद-व्यय-ध्रौव्यस्वभावोऽयमुच्यते । एवं घटोपि पूर्वपर्यायेण विनश्यति, घटाकारतया तूत्पद्यते, रूपादित्वेन मृद्र्व्यतया चावतिष्ठत इत्यसावष्युत्पादव्यय-ध्रौव्यस्वभावः । एवमन्यदपि यदस्ति वस्तु, तत् सर्वमप्युत्पाद-व्यय-ध्रौव्यस्वभावमेवाभिमतं तीर्थकृताम् । ततश्च यथोत्पत्तिमत्त्वाद् विनाशित्वं घटे सिध्यति तथाऽविनाशित्वमपि । तथा च सति साध्यधर्मिणि चैतन्येऽपि तत्सिद्धिरिति । तदेवं चैतन्यादव्यबिरिक्तोऽपि जीवः कथश्चिद् नित्य एव ॥ १९६४ ॥१९६५।। ततश्च न परलोकाभाव इति दर्शयन्नाहघेडचेयणया नासो पडचेयणया समुब्भवो समयं । संताणेणावत्था तहेह-परलोअ-जीवाणं ॥ १९६६ ॥ मणुएहलोगनासो सुराइपरलोगसंभवो समयं । जीवतयाऽवत्थाणं नेहभवो नेय परलोओ ॥ १९६७ ॥ घटविषयं विज्ञानं घटचेतनोच्यते, पटविषयं तु विज्ञानं पटचेतना। यदा च घटविज्ञानानन्तरं पटविज्ञानमुपजायते जीवस्य, तदा पटचेतनया घटविज्ञानरूपेण तस्य नाश उच्यते, पटचेतनया तु पटविज्ञानरूपेण 'समय' युगपदेव समुद्भव उत्पादः, अनादिकाल. प्रवृत्तेन तु चेतनासंतानेन निर्विशेषणेन जीवत्वमात्रेणावस्थानमिति । एवं च यथेहभवेऽपि तिष्ठतो जीवस्योत्पाद-व्यय-धौव्यस्वभावत्रयं दर्शितम् , तथा परलोकं गता जीवाः परलोकजीवास्तेषामप्येतत् स्वभावत्रयं द्रष्टव्यम् । तद्यथा- यदा मनुष्यो मृत्वा सुरलोकादावुत्पद्यते तदा मनुष्यरूप इहलोको मनुष्येहलोकस्तस्य नाशः, तत्समकालमेव च सुरादिपरलोकस्य संभव उत्पादः, जीवतया स्ववस्थानम् । तस्यां च जीवत्वावस्थायां विवक्षितायां नेहभवो विवक्ष्यते, नापि सुरादिपरलोको विवक्ष्यते, किन्तु निष्पर्यायं जीव-द्रव्यमात्रमेव विवक्ष्यते । | तदेवमुत्पाद-व्यय-ध्रौव्य-स्वभावत्वे जीवस्यै न परलोकाभाव इति ॥ १९६६ ॥ १९६७ ॥ १ घटचतनया नाशः पटचेतनया समुद्भवः समकम् । संतानेनावस्था तथेह-परलोक-जीवानाम् ॥ १९६६ ॥ मनुजेहलोकनाशः सुरादिपरलोकसंभवः समकम् । जीवतयाऽवस्थानं नेहभवो नव परलोकः ॥ १९६७ ॥ २ घ. छ, 'स्य कथं प'। ॥८१३॥ Jan Education Internation For Personal and Price Use Only jaineibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 202