________________
हत्तिः।
इह मृत्पिण्डः कर्ता। योऽयं वृत्तसंस्थानरूपः स्वकीयो मृत्पिण्डाकारः, शक्तिश्च या काचिदात्माया, एतदुभयलक्षणो यः पर्यायविशेषास्तस्य यो विलयो विनाशस्तत्समकालमेवासावुत्पद्यते मृत्पिण्डः । केन ? इत्याह-पृथुबुनोदरादिको यः कुम्भाकारः, तच्छक्तिश्च या 11८१३||
जलाहरणादिविषया, एतदुभयलक्षणो यः पर्यायस्तेनोत्पद्यते । रूप-रस-गन्ध-स्पर्शरूपतया मृद्रव्यरूपतया चासौ मृत्पिण्डो न जायते, नापि व्येति विनश्यति । ततस्तद्रूपतया नित्योऽयमुच्यते, तेन रूपेण तस्य सदैवावस्थितत्वात् । तदेवं मृत्पिण्डो निजाकारस्वशक्तिरूपतया विनश्यति, घटाकार-तच्छक्तिरूपतयोत्पद्यते, रूपादिभावेन मृद्रव्यरूपतया चावतिष्ठते, इत्युत्पाद-व्यय-ध्रौव्यस्वभावोऽयमुच्यते । एवं घटोपि पूर्वपर्यायेण विनश्यति, घटाकारतया तूत्पद्यते, रूपादित्वेन मृद्र्व्यतया चावतिष्ठत इत्यसावष्युत्पादव्यय-ध्रौव्यस्वभावः । एवमन्यदपि यदस्ति वस्तु, तत् सर्वमप्युत्पाद-व्यय-ध्रौव्यस्वभावमेवाभिमतं तीर्थकृताम् । ततश्च यथोत्पत्तिमत्त्वाद् विनाशित्वं घटे सिध्यति तथाऽविनाशित्वमपि । तथा च सति साध्यधर्मिणि चैतन्येऽपि तत्सिद्धिरिति । तदेवं चैतन्यादव्यबिरिक्तोऽपि जीवः कथश्चिद् नित्य एव ॥ १९६४ ॥१९६५।।
ततश्च न परलोकाभाव इति दर्शयन्नाहघेडचेयणया नासो पडचेयणया समुब्भवो समयं । संताणेणावत्था तहेह-परलोअ-जीवाणं ॥ १९६६ ॥ मणुएहलोगनासो सुराइपरलोगसंभवो समयं । जीवतयाऽवत्थाणं नेहभवो नेय परलोओ ॥ १९६७ ॥
घटविषयं विज्ञानं घटचेतनोच्यते, पटविषयं तु विज्ञानं पटचेतना। यदा च घटविज्ञानानन्तरं पटविज्ञानमुपजायते जीवस्य, तदा पटचेतनया घटविज्ञानरूपेण तस्य नाश उच्यते, पटचेतनया तु पटविज्ञानरूपेण 'समय' युगपदेव समुद्भव उत्पादः, अनादिकाल. प्रवृत्तेन तु चेतनासंतानेन निर्विशेषणेन जीवत्वमात्रेणावस्थानमिति । एवं च यथेहभवेऽपि तिष्ठतो जीवस्योत्पाद-व्यय-धौव्यस्वभावत्रयं दर्शितम् , तथा परलोकं गता जीवाः परलोकजीवास्तेषामप्येतत् स्वभावत्रयं द्रष्टव्यम् । तद्यथा- यदा मनुष्यो मृत्वा सुरलोकादावुत्पद्यते तदा मनुष्यरूप इहलोको मनुष्येहलोकस्तस्य नाशः, तत्समकालमेव च सुरादिपरलोकस्य संभव उत्पादः, जीवतया स्ववस्थानम् । तस्यां च जीवत्वावस्थायां विवक्षितायां नेहभवो विवक्ष्यते, नापि सुरादिपरलोको विवक्ष्यते, किन्तु निष्पर्यायं जीव-द्रव्यमात्रमेव विवक्ष्यते । | तदेवमुत्पाद-व्यय-ध्रौव्य-स्वभावत्वे जीवस्यै न परलोकाभाव इति ॥ १९६६ ॥ १९६७ ॥
१ घटचतनया नाशः पटचेतनया समुद्भवः समकम् । संतानेनावस्था तथेह-परलोक-जीवानाम् ॥ १९६६ ॥ मनुजेहलोकनाशः सुरादिपरलोकसंभवः समकम् । जीवतयाऽवस्थानं नेहभवो नव परलोकः ॥ १९६७ ॥ २ घ. छ, 'स्य कथं प'।
॥८१३॥
Jan Education Internation
For Personal and Price Use Only
jaineibrary.org