SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥८१४॥ आह-ननु कथं सर्वस्यापि वस्तुन इयं त्रिस्वभावता ? इति । अत्र युक्तिमाहअसओ नत्थि पसूई, होज व जइ, होउ खरविसाणस्स । न य सव्वहा विणासो सव्वुच्छेयप्पसंगाआ॥१९६८॥ तोऽवत्थियस्स केणवि विलओ धम्मेण भवणमन्नण । सब्बुच्छेओ न मओ संववहारोवरोहाओ ॥ १९६९ ॥ इहैकान्तेन सर्वथाऽसतो वस्तुनः प्रमूतिरुत्पत्तिर्नास्ति न घटते । अथ भवति, तर्हि खरविषाणस्यापि भवतु, असत्चाविशेषात् । तस्मात् केनापि रूपेण सदेवोत्पद्यते । न च सतः सर्वथा विनाशः, क्रमशः सर्वस्यापि नारक-तिर्यगादेरुच्छेदप्रसङ्गात् । ततस्तस्मात् तस्यावस्थितस्य जीवादेरस्ति केनापि मनुष्यत्वादिधर्मेण विलयो विनाशः, अन्येन तु सुरादिरूपेण भवममुत्पादः, सर्वोच्छेदस्तु न मतस्तीर्थकृताम्, संव्यवहारोपरोधात्- अन्यथा व्यवहारोच्छेदप्रसङ्गादित्यर्थः; तथाहि-राजपुत्र्याः क्रीडाहेतुभूतं सौवर्णकलशकं भक्त्वा राजतनयस्य क्रीडार्थमेव कन्दुको घटितः, ततो राजपुत्र्याः शोकः, कुमारस्य तु हर्षः, सुवर्णस्वामिनश्च नरपतेरौदासीन्यम् , सुवर्णस्योभयावस्थायामप्यविनष्टत्वात् , इत्यादिको योऽसौ लोकन्यवहारस्तस्य सर्वस्याप्युत्पाद-व्यय-ध्रौव्यात्मकवस्त्वनभ्युपगमे समुच्छेदः स्यात् । तस्मात् कथश्चिदवस्थितत्वे जीवस्य न परलोकाभाव इति ॥ १९६८ ॥ १९६९ ।। किश्च, स्वर्गादिपरलोकाभावेऽग्निहोत्र-दानादीनामानर्थक्यं स्यादिति दर्शयन्नाह असइ व परम्मि लोए जमग्गिहोत्ताई सग्गकामस्स । तदसंबई सव्वं दाणाइफलं च लोअम्मि ॥१९७०॥ गतार्था ॥ १९७०॥ तदेवं छिन्नस्तस्यापि संशयः । ततः किं कृतवानसौ ? इत्याहछिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि ओ सह खण्डियसएहि।।१९७१॥ अर्थः स एव ॥ इति त्रयोविंशतिगाथार्थः ॥ १९७१ ॥ ॥ इति दशमो गणधरवादः समाप्तः॥ , असतो नास्ति प्रसूतिः, भवेद् वा यदि, भवतु खरविषाणस्य । न च सर्वथा विनाशः सर्वोच्छेदप्रसङ्गात् ॥ १९६८ ॥ ततोऽवस्थितस्य केनापि विलयो धर्मेण भवनमन्येन । सर्वोच्छेदो न मतः संव्यवहारापराधात् ॥ १९६९ ॥ २ घ.छ. 'दास्यम्'। ३ असति वा परस्मैिडोके यदमिहोत्रादि स्वर्गकामस्य । तदसंबद्धं सर्वं दानादिफलं च लोके ॥ १९७० ॥ ४ गाथा १९०४ । |८१४॥ EASERA JanEducationantemation For Personal and Use Only
SR No.600166
Book TitleVisheshavashyak Bhashya Part 05
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy