________________
विशेषा०
बृहद्वत्तिः ।
॥८१५॥
अथैकादशगणधरवक्तव्यतामाह--
'ते पव्वइए सोउं पहासो आगच्छई जिणसयासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि॥१९७२॥ सुगमा ॥१९७२ ॥ ततः किम् ? इत्याह
आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसी णं ॥१९७३॥ तथैव ॥ १९७३ ॥ आभाष्य ततः किमुक्तोऽसौ ? इत्याह
किं मन्ने निव्वाणं अत्थी नत्थि त्ति संसओ तुज्झ। वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥१९७४॥
हे आयुष्मन् ! प्रभास ! त्वमेवं मन्यसे- किं निर्वाणमस्ति, नवा ? इति । अयं च संशयस्तव विरुद्धवेदपदश्रवणनिबन्धनः । तानि चामूनि वेदपदानि-"जरामर्य वैतत् सर्व यदग्निहोत्रम्" । तथा, "सैषा गुहा दुरवगाहा" । तथा, "द्वे ब्रह्मणी परमपरं च, तत्र परं सत्यं ज्ञानमनन्तरं ब्रह्म" इति । एतेषां चायमर्थस्तव चेतसि वर्तते- यदेतदग्निहोत्रं तज्जरामर्यमेव यावज्जीवं कर्तव्यमिति। अग्निहोत्रक्रिया च भूतवधहेतुत्वाच्छबलरूपा । सा च वर्गफलैव स्याद् नापवर्गफला । 'यावज्जीवम्' इति चोक्ते कालान्तरं नास्ति यत्रापवर्गहेतुभूतक्रियान्तरारम्भः स्यात् । तस्मात् साधनाभावाद् मोक्षाभावः । ततश्चेत्यादिकानि किल मोक्षाभावप्रतिपादकानि । शेषाणि तु तदस्तित्व सूचकानि, यतो गुहात्र मुक्तिरूपा, सा च संसाराभिनन्दिनां दुरवगाहा, दुष्पवेशात् । तथा, परं ब्रह्म सत्यं मोक्षः, अनन्तरं तु ब्रह्म ज्ञानमिति । ततो मोक्षास्तित्वं नास्तित्वं च वेदपदप्रतिपादितमवगम्य तव संशयः । तत्रैषां वेदपदानामर्थ त्वं न जानासि, यतस्तेषामयमों वक्ष्यमाणलक्षण इति ॥ १९७४ ।।
युक्तिमपि मोक्षाभावप्रतिपादने प्रभासाध्यवसितां दूषयितुं भगवान् प्रकटयितुमाह. मनसि किं दीवस्स व नासो निव्वाणमस्स जीवस्स । दुक्खक्खयाइरूवा किं होज्ज व से सओऽवत्था ? ॥१९७५॥
तान् प्रनजितान् श्रुत्वा प्रभास आगच्छति जिनसकाशम् । ब्रजामि बन्दे वन्दित्वा पर्युपासे ॥ १९७२ ॥ २ गाथा १६०९ । किंमन्यसे निर्वाणमस्ति नास्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १९७४ ॥ ४ मन्यसे किं दीपस्येव नाशो निर्वाणमस्य जीवस्य ? । दुःखक्षयादिरूपा किं भवेद् वा तस्य सतोऽवस्था ? ॥ १९७५ ।।
॥८१५॥
For Posol
s en